________________
न्यायावतारः
.0000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
हानिः । यत्र च देशादियोग्यतासद्भावाद् भवति सा, तत्र तत् केन निरुध्येतोद्भवत् । तत्सत्यमुक्त-दोषावरणयोर्हानिनिःशेषाऽत्यतिशायनात्' इत्यादि । 'तारतम्ये' इत्याद्यपि यदुक्त, तदपि न साधूनां वक्त मप्यहम्, किमुत प्रतिपादयितुम् । यत उत्पतनादौ यद्यस्थास्यत् पूर्वोत्पतितं ज्ञानवद् अभविष्यच्च ज्ञानवदक्रमवृद्धिकमभविष्यदेव परमः प्रकर्षः। न चैतव्यम्। तत्कथमिव भवेद्भवदुदितम् । यद्वाऽस्तूत्पतनादायपि परमः प्रकर्षः । यतो यथा यथा हि लाघवं कायस्य तथाऽभ्यासपाटवं च तथा तथोतातप्रकर्षः । लाघवप्रकर्षवन्तश्च यतः परमाणुद्वयणुकाद्याः । अतोऽनुयान्ति चाधोलोकान्तादपि ते ऊर्ध्व लोकान्तम् यावत् । लाघवमभ्यासपाटवं चाऽऽपाद्यमानमपि नैति परमप्रकर्षम् । यतोऽस्मदादीनां शरीरजाड्याविनाभावित्वान्जीवनस्य । सर्वथा धातुक्षये मरणापत्तेरिति विभावनीयं भावुकैः । अन्यच्च -यथा परिमाणं तारतम्येनोपलब्धमिति तद्विश्रान्तिश्च तथा ज्ञानस्यापि तारतम्योपलम्भादवश्यं स्वीकार्या परमाणावाकाशे चापकृष्टस्योत्कृष्टस्य परिमाणविश्रामस्येव सूक्ष्मैकेन्द्रियापर्याप्ते केवलिनि चापकृष्टोत्कृष्टा च विश्रान्तिरिति । नन्वन्यथानुपपन्नत्वं हि हेतोर्लक्षणमभिमतं तत्रभवतां शास्त्रकृताम्। न चेदमत्रावरणहानि-तारतम्यहेत्वोः सर्वथा हानिविश्रान्तियुगलेनेति चेत् । सम्यगपृच्छ:, परमविचारितं रमणीयम् । यतो देशतो हान्युपलब्धौ तारतम्योपलब्धौ च निश्चीयते तावदिदं यदुत - नैतदवस्थितपरिमाणं द्वयं, किन्तु प्रयत्नाद्यानुकूल्येन वृद्धिमत् । प्रकर्षे च तयोर्भवत्येव प्रकर्षप्राप्तिरप्येतस्येति युक्तान्यथानुपपन्नता। अन्यच्च-ज्ञानमात्रमपि नह्यात्मव्यतिरिक्तम् , तथात्वे जडचेतनयोर्विभागाभावात् । सति जीवस्वभावत्वे नेयत्ताकारि किश्चिन्न चेत् प्रतिबन्धकम्, क्षये च कर्मणः प्रतिबन्धकस्योत्पद्यतैव तदनन्तमिति स्थादेव ज्ञानानन्त्यम् । न चैवमुत्पतनम् शरीरस्य स्वभावो, येन ज्ञानवत्प्रकर्षभावमाप्नुयात् । वाच्यतापि स्वीकार्यैव सर्वत्र । यतो जीवादयः