________________
न्यायावतारः
100000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000
पदार्थाः सर्वैरेव समाभिधानाः स्वीकृतास्ततो ज्ञानवत्प्रवर्त्तितास्ते । यदि तज्ज्ञानम्, तदा तस्यारूपित्वात् समस्तारूपिपदार्थज्ञानमपि भवन विरुध्यते। अरूपिपदार्थज्ञाने इन्द्रियादिवदियत्ताकारणाभावात् । सर्वेषामरूपिणां ज्ञाने चावश्य तद्वाचका ये ये शब्दास्ते तेऽपि तैाता एव भवन्ति । तद्ये ये वाच्यास्ते ते प्रत्यक्षाः कस्यचिदिति सुष्ठु प्रति. पादितम् । अन्यच्च-जीवादीनामनुमानमेयत्वं स्वीक्रियते भवद्भिश्चेतनादिना तद्धर्मेण । स च कस्यचिद् भूतपूर्वश्चेत्प्रत्यक्षः, अनुमानं भवे. तस्य तद्धर्मत्वेन प्रनोदनादन्यथा कल्पित: स्यात् सम्बन्ध इति न सम्यसिद्धिस्तेषामिति यथार्थमेवोच्यते-यदनुमेयाः कस्यचित्प्रत्यक्षाः, यस्य च ते प्रत्यक्षविषयाः सर्वे स एव सर्वज्ञतास्पदम् । ज्योतिषचिकित्सादिप्रतिपादकाअपि तज्ज्ञानवन्त एव । यच्च भिन्नमतत्वं तत स्वकल्पनाकल्पितमिति न तत्प्रणेतृणां मालिन्याधायकम्। सर्वज्ञप्रतिपादितं ह्यवितथमेव । आगमोऽपि सर्व एव न सर्वज्ञतालयोदीरितो, यतो भिन्नवाच्यतया दोषमारुहेत् । किन्तु य एवं हितोपदेशममुक्षुसत्साधुपरिग्रहपूर्वापराविरोधाद्यपरिमितगुणालयतयाऽशेषाभिवन्द्यगुणाक. रप्रतिपादितः, स एवेति यत्किञ्चिज्ज्ञप्रणीतेनागमेन हिंसादिकलुषनृशसदुर्बुद्धिपरिगृहीतेन न तस्य दुष्टतेति । न च पूर्व साधितत्वात् सर्वज्ञस्यान्योन्याश्रयोऽपि सिद्धान्तात सर्वज्ञत्वाङ्गीकृतौ । उपमानमपि अप्रत्यक्षीकृतस्यापि सुराऽमृतसिंहादेः सम्भवत्येवाप्तवाक्यादिनोपमानता। सत्यां च तस्यामध्यवसीयत एव सुरादेः सत्ता । तद्वदेवात्रापि तथाप्रकार ज्ञानिनमुद्वीक्ष्य सर्वज्ञेनोपमानं दीयमानं दृष्ट्वा को न कक्षीकुर्यात् सर्वज्ञतावत सद्भावम् ? । अर्थापत्त्यापि सिद्धयत्येव तन्महानुभावतास्पदम्, यतो न तदन्तरेणात्मादिपदार्थज्ञानं तत्प्ररूपणं च सम्भवति । यच्चाऽत्रोक्त मपौरुषेयादागमादात्मादिबोध' इति । तनिचितजडिमावष्टब्धान्तःकरणविलसितमेव । यतो न तावदपौरुषेयो वचनलेशोऽपि सम्भवति, आसतामागमा विस्तृतवचनरूपाः । उच्यते