________________
४४
00000000 6000000000000000000000000000000000000000000000000000 00000000000000000000000
न्यायावतारः
प्रत्यक्षभेदभूते सकलं विकलं चेति चेत् । सकलमिदमित्यभिप्रेत्याह'सकलार्थात्म सततप्रतिभासन' मिति । सकला - अशेषाः, न कोपि पदार्थ एवंविधोऽस्ति अभूत् भविष्यति वा यो न प्रतिभातः सकलप्रत्यक्षरूपे केवले । तदुक्तं - 'तं नत्थि जं न पासइ भूयं भव्यं भविस्सं च'त्ति । ताशा येऽर्था अन्ते-गम्यन्ते 'ऋ गतावित्यस्मात् 'क्रमिप्रगीत्तिभ्यस्थ' इति थेऽर्था: - धर्माधर्माकाशपुद्गलजीवास्तेषामात्मा-स्वभावो गुणपर्यायादि, नास्ति व्यतिरिच्य गुणपर्यायानन्यो द्रव्यस्वभावः, तयो - रन्योन्यमेव रूपतया मीलितत्वात् । यदाह
'दव्वं पज्जव विजुअं, दव्वविजुआ य पज्जत्रा नत्थि'त्ति श्री पूज्य - वचनात् । अन्यत्रापि -
'द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः ।
क कदा केनचिद्दष्टा द्रष्ट्रा मानेन केनचित् ॥ १॥
अत एवोक्तं पूज्यपादैः- उप्पायठिइभंगाई हंदि दविणलक्खणमेयं । यद्वा अर्थाश् चात्मानश्च स्वभात्रा अर्थात्मानः, सकलाचतेर्थात्मानश्च सकलार्थात्मानोऽत्र द्रव्यशब्देन गुणक्रियाश्रयग्रहणम्, आत्मशब्देन च तत्स्वभावभूतानां पर्यायादीनां ग्रहणम् । द्वन्द्वादौ द्वन्द्वान्ते 'च श्रयमाणं पदं प्रत्येकमभिसम्बध्यते' इति उभयत्र सकलपदान्वयाच्च सर्वद्रव्यसर्वपर्यायसमावेशः । न च गुणानामग्रहणान्न्यूनत्वम् । गुणा अपि पर्याया एव । यतः पर्यायशब्देन परिणामग्रहणात् । परिणामश्च 'तद्भावः परिणाम' इतिलक्षणः । भवति च गुणानामपि द्रव्ये भावता । अत एव च द्रव्यार्थिक पर्यायार्थिकेतिनयद्वयमेत्र, न तु गुणार्थिक इति तृतीयोऽपि । ननु यदि न गुणाः पर्यायेभ्यः पृथक्किमिति 'गुणपर्यायवदित्यत्र पृथग्गुणग्रहणमिति चेत् ? सत्यम्, तत्र हि गोबलीवईन्यायेन गुणानां प्राधान्यख्यापनार्थं पार्थक्यम् । प्राधान्यं च तेषां ज्ञानदर्शनादिवत् सहभावित्वेन क्रमभाविभ्यो देवत्वनरत्यादिपर्यायेभ्यः