________________
न्यायावतारः
४३
.०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
याणि, न सकलार्थगोचराणि । इदं तु भूतभवद्भविष्यद्रप्यरूपिसकलार्थविषयमिति । अथवा-यथा मत्यादीनि न प्रथमतः सम्पूर्णान्युत्पद्यन्ते, किन्तु यथा कथञ्चिदुत्पद्य पश्चाद्वृद्धिमत्राप्नुवन्ति । नैवमिदं, किन्तु ततप्रथमतयेवोत्पन्नमात्रं सकलानर्थान् साक्षाकरोति । ततः सकलमेवेदम् । असाधारणं वा केवलम् । यथाहि-मतिज्ञानादीनि यदा यदा तदुपयुक्त आत्मा भवति, तदा तदा स्वविषयान् प्रकाशयन्ति । केवलं तु आरभ्य उत्पत्तेःसर्वकालं स्वविषयाणां साक्षात्कारं कारयत्येवानुसमयं तद्वत इत्यसाधारणता । यद्वा-अनन्तं केवलं। यतःसान्तान्येव मतिश्रुतावधिमनःपर्यायाणि, केषाञ्चित्प्रतिपातसम्भवात् स्वतः, केषाचित् केवलोपलम्भे विगमात् । केवलं तु न कदाचित्प्रतिपतति । न च वाच्यं सिद्धत्वावाप्तावन्यदेव ज्ञानं, आत्मस्वभावरूपस्यैव केवलत्वात्तदेव च प्रथमत आविभूतमिति न तस्य सान्तत्वम् । यद्वा-अनन्तपदार्थविषयत्वादनन्तम् । अनन्तमिति हि सङ्ख्या तेन नावगमविरोधः, ज्ञानमपि चेदं तथाभूतमेव तेनानन्तत्वेन न ज्ञानाविषयत्वमपि तस्य। यद्यप्यवध्यादिष्वप्यस्त्येवानन्तपदार्थविषयता. तथापि सा रूपि - मर्यादयाऽनन्तसङ्ख्याके पुद्गलवज्जीवाकाशे अपि स्त एव । न चैते अवलोकयत्यवध्यादिमान अरूपित्वादेतयोस्तदिदमेवानन्तसङख्यावद्यावत्पदार्थगोचरम् । केवलं च तज्ज्ञानम् च केवलज्ञानतत् 'यदिति । यत्किमपि सदसरसामान्यविशेष-नित्यानित्यवाच्यादिरूपमर्थजातं प्रकाशते-उपलभते । यद्यप्यात्मैवोपलब्धा, ज्ञानं तु साधनमुपलम्भस्य, तथाप्यभिन्नत्वात् कथञ्चिद् गुणगुणिनोरेवं व्यपदेशः । यद्वाऽस्त्येव ज्ञानस्याप्युपलम्भकता। न भवेदन्यथा स्वान्यावभासकताऽस्येति। तत् कीदृशमित्याह-'प्रत्यक्ष मिति । अक्षो हि जीवः पूर्वव्युत्पादितरीत्या, तं प्रति गतं प्रत्यक्षमितिविग्रहाज्जीवमात्रापेक्षं, नान्यज्ञानवदिन्द्रियानिन्द्रियादिव्यपेक्षाऽत्रोपयोगापेक्षापि चेति । वत किंविधं प्रत्यक्षं ? यतः प्रागधारिते द्वे प्रत्यक्षे पारमार्थिक