________________
व्यायावतारः
000000000000000000............................00000000000000000000000000000000000000000000000000000000
४२
रामोत्थत्वेन तत्तन्नाम्ना व्यपदेशमाप्नोति । यथा मतिज्ञानं श्रुतज्ञानमित्यादि । श्रत एव च मतिज्ञानादयः क्षायोपशमिका भावा भण्यन्ते । छानस्थिकं च पठ्यते तच्चतुष्टयमपि ज्ञानानाम् । यतो न तद्नावृतम्। परं यदा केवलज्ञानं सकलार्थस्वरूपज्ञापनसमर्थं प्रादुर्भवति तदावश्यं मत्याद्यात्ररणानां केवलावरणस्य च क्षयः । न चेदं केवलावरणमंशतोऽपगच्छति, किन्तु सत्यां देशादिसामग्-यां सर्वथा तत्क्षयो भवतीति । अत एव नैतत्क्षायोपशमिकं, किन्तु क्षायिकमेव समूलकाषंकषितत्वात् मतिश्रुतावधिमन:पर्ययावरणानां केवलावरणस्य च । भवति च केवलज्ञानावरणीया दिक्षयस्य समकालमेव केवलदर्शनावरणीयान्तरायादेः क्षयोऽपि श्रमूलचूलम् । दर्शनमोह - कषायनोकषायमोहृत्क्षयस्त्वर्वागेव ।
'केवलियनाणलंभो नन्नत्थ खए कसायाणं 'ति वचनात् । तथा च अशेषज्ञानावरणादिक्षयप्रभावाऽवाप्ताऽशेष पदार्थसार्थ साक्षात्कार केवला लोकशालिनां न किञ्चिदप्यन्तरायादि लेशतोऽपि भवतीति युक्तमुक्त विशेषणं यत् सकलावरणमुक्तात्मे 'ति । ईदृशं किमित्याहकेवलमिति । अत्र पदैकदेशे पदसमुदायोपचारात् केवलमितिपदेनकेवलज्ञानम् ग्राह्यम् । तत्र केवलमेकं मत्यादिनिरपेक्षम्। यथाहि मदिपूर्व श्रुतमितिवचनाच्छ तज्ञानस्य मतिसापेक्षता, अवधौ च मैवेयकाद्यमरैः स्वालयस्थैः पृष्टपुरुषोत्तमप्रष्ठो यानि मनोद्रव्याणि परिणमयति तान्यवेक्ष्यानुमानादभिधेयमवबुध्यतां सुरवराणां मत्यपेक्षा, मनः पर्यायेऽपि च तद्वतामपरचिन्तित बाह्यार्थज्ञानेऽनुमानापेक्षा, नैव तथाऽत्रेत्यस्य यथार्थैव मत्यादिनिरपेक्षता । केवलं वा शुद्धम् । यथाहिमत्यादिज्ञानानि सावरणस्यापि जीवस्य प्रादुर्भवन्ति, नवेद तथेति क्षायिकमेवेदम् । तानि च क्षायोपशमिकान्येवेति । केवलं सकलम् | यथाहि मतिश्र ते आदेशेन सर्वद्रव्याऽसर्वपर्यायविषये, अवधिज्ञानं रूपिविषयं, मनःपर्यायं तु मनोमात्रविषयमिति तानि 'परिमितविष