________________
न्यायावतारः
४१
०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
दीरितं वच एव दूषणाऽऽभासतया दूवणमिति ज्ञायते वादरणांगणगणकैः । अन्यथापि भावनीयमेतन्नात्राग्रह आगमानुसारिणामिति ।
एवं च प्रत्यक्षपरोक्षप्रमाणं सप्रपञ्चं पक्षादिस्वरूपं च सबाधं निरूप्य प्रमाणस्य फलम् निरूपयितुकामाः सूरिपादाः फलमाश्रित्य केवलस्याऽऽलोकितलोकालोकस्य भिन्नरूपत्वात्तत्स्वरूपमेवादो प्ररूपयन्त आहुः
सकलावरणमुक्तात्म, केवलं यत्प्रकाशते । प्रत्यक्षं सकलार्थात्म सततप्रतिभासनम् ॥२७॥ तत्र सकलानि-समस्तानि, आवरणानि-आब्रियन्ते ज्ञानान्येभिरित्यावरणानि ज्ञानावरण-दर्शनावरण-मोहान्तरायाणि, घातित्वादेषाम् । यद्वा-ज्ञानस्याधिकृतत्वाज्ञानावरणीयान्येव, तैमुक्तो-रहितः, आत्मा-स्वरूपं यस्य तत् सकलावरणमुक्तात्म। अत्र चावधेयमिदंयत् केवलावरणेनावृतस्य जीवसूर्यस्य या प्रभा तच्छामस्थिकं ज्ञानम् । यतो न तत् कदापि निरावरणमुपलभ्यते, पूर्वोक्तयुक्तः । अथ तत्रापि मतिज्ञानावरणादि कटादिवदावृणोत्येव ज्ञानमात्राम् । न च वाच्यं यन्नावृतं केवलालोकावरणेन तत् कथमिवावरीतुं शक्नुयान्मतिज्ञानावरणादि छाद्मस्थिकम् ज्ञानमिति । प्रबलतमपयोधरपटलेना. प्यप्रतिहतस्य तेजोभरस्य कटादिनावरणस्योपलब्धेः । तत्रापि तिष्ठत्येवानावृतं प्रदेशाष्टकं जीवस्वाभाव्याद् अन्यथा न स्याच्चेतनानामापि। न चैवं कर्मानुभवोऽपि । न च तदनुभवाभावे स्यात् कर्मविशरारुता। तथा चोपलभ्यमानायाःशुद्धेरप्यनुपलम्भ इत्यवश्यमनावृतापि काचिन्मात्रा स्वीकार्या सुधीभिः । अथ कटादीनां छिद्रेण यथाऽऽगच्छति तेज आवृतस्यापि पयोमुक्पटलप्रचयेनार्कस्य, तथा मतिज्ञानावरणादीनां क्षयेण य इन्द्रियाऽनिन्द्रियायुद्भवो बोधः स ततत्क्षयोप