________________
न्यायावतारः
.0000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००00.000000.
रहिते साधने पक्षादौ दूषणं-बाधादिसद्भावोगिरणं यत्प्रतिवादिना क्रियते तत् किमित्याह-'दूषणाऽऽभासनामक' इति । तत्र दूष्यतेऽनेन पक्षादिर्वादीवेति दूषणम् । 'रम्यादिभ्यो०' अने बाधादिस्तत्प्रकाशनं वा तद्वदाभासते इति दूषणाऽऽभासः । 'कर्मणोऽण' इत्यणि । स नामाभिधानं यस्यासदोषप्रकाशनस्य तद्द षणाऽऽभासनामकम् । शेषाद्वा [७३ ।१७५ ] इतिकच् । अत्रेदमवधेयं, यथाहि-वाद्युक्त कुत्सिते साधने विद्यमानानां दोषाणामनुद्भावने प्रतिवादिनो मातृशासिततां गमयति । प्राप्नोति चासौ तेनैव पूर्वोक्तवद् निग्रहस्थानं,एवमेव वादिना निरवद्य साधने प्रतिपादिते यदलीकमु ष्यते दूषणं,तदपि प्रतिवादिनो वादानहतां ज्ञापयित्वा तं निग्रहस्थानीकरोत्येव । यतोऽसौ सम्भाव्यतेऽनुमानस्वरूपावगमायापि नालं, किमुत तस्य निराकरणायेति । यद्वावृत्तिकारकोऽयंजडशेखरः केनचिदध्यापितस्य, कथमन्यथैवंविधे समीचि साधने दूषणोद्घोषणं स्वस्यैव निग्रहस्थानापादुकमाभाषेतेति । तदुक्त गौतमीये-'अनिग्रहस्थाने निग्रहस्थानाभियोग' इति निरनुयोज्यानुयोग इति । सम्यगुदितं दिवाकरपादैर्यदुत-निरवद्ये तु दूषणाऽऽभासनामकमेव तद्दषणमिति । कचित्प्रत्यन्तरे द्वितीयः पाद एवं दरीदृश्यते'यत दोषाणामुद्विभावन'मिति । अत्र च यदि केनापि पण्डितमन्ये. नोदभावनमित्यस्यागतिकत्वमाकलय्येदं लिपीकृतम् भवेदितिसंभाव्यते तदापपाठ एवायं । यदि चादेशान्तरमिदं स्यात्तदा तु व्याख्यैवं कार्या-पक्षादिदूषणानि प्रतिपादितान्यथ च तानि वादस्थले योजयस्तस्य सत्येतरतया विभागमाह-'बादी'त्यादि । तत्र वाद्यक्त ऽसाधने प्रोक्तदोषाणां बाधादीनामुद्विभावनं उत्-प्राबल्येन यथा बाधादिसम्पन्नं तथैव सम्यगनूद्य विभावनं-प्रकटीकरणमुद्घोषणमिति यावत्। तदेव वाद्यपेक्षया पक्षादिदूषकत्वाद्द षणं दोष इति कथ्यते । परं प्रतिवादी चेत्प्रतिपत्तिशून्यो निर वद्य साधने याद् बाधादिकं दोषजालमसन्त नेतावता बादिपक्षः पराभूतो भवेकिन्तु तत्प्रतिवाद्य -