________________
न्यायावतारः
0330000000000000000000000000000000000000000000000000000०००००००००००००००००००००००००००००००
बाधितपक्षासिद्धविरुद्धानेकान्तिकदोषबाधितहेतुसाध्यविकलाद्यसिद्ध - साध्यव्यतिरेकादिबाधितदृष्टान्तत्वेन कुत्सितेऽनुमाने, नत्रः कुत्सार्थत्वात् । तत्र किमित्याह-प्रोक्तदोषाणामुदभावन' मिति । तत्र प्रकर्षण यथार्थतयोक्ता ये पक्षाभासाद्या विपरीतव्यतिरेकावसानास्तेषामुद्ऊर्ध्वम्, नह्यसमापिते पक्षेवादिनां प्रोक्त प्राञ्जलं प्राजलस्य प्रतिवादिन इति ज्ञापनाय । नायमुपसर्गस्तस्य धातुनैव योगे तथासङ्घत्वात्। अभावनमप्रकाशनं यत्तत दूषणं दोष एव प्रतिवादिन इतिशेषः । अयं हि न्यायोपनिषद्व दिनां नियमो, यदुत-वादिनोक्त साधनं चेद्द ष्टम, न च प्रतिवादिना तद्विभावितं-ज्ञातमपि, तदा प्रतिवादी निग्रहस्थानापन्न इत्यु ष्यावसाद्यते कथा यतो नानेन चेद्वादिपक्ष - दूषणमध्यवबुद्धमवबुद्धं बान सम्यक्तया प्रतिपादित कथङ्कारं विधातासौ तत्खण्डनं स्वाभिमतसमर्थनं वेति । तदुक्तमाक्षपादीये निग्रहस्थानप्राप्तस्यानिग्रह' इति पर्यनुयोज्योपेक्षणाभिधानमिदं निग्रहस्थानमापद्यते प्रतिवादी नानुयोजयति चेद्वादिनं दुष्टसाधनं प्रयुञ्जानम् । न चाऽऽरेक्यं नेदं दुष्टसाधनं निग्रहस्थानमिति । यतोऽवाचि निग्रहस्थानमन्त्यं हेत्वाभासाश्च यथोक्ता इति । न च केवलानां हेत्वाभासानां दोषतयाऽऽख्यानं, किन्त्वन्येषामपि प्रत्यक्षविरुद्धसाध्यादीनां सम्भवे भवन्त्येव पर्यन्ते प्रतिज्ञाविरोधहानि-सन्न्यासतदन्तरादीनि निग्रहस्थानानीति सुष्ठुक्त-वाद्युक्तेऽसाधने साधने वा विद्यमानानां दोषाणामनाविष्करणं प्रतिवादिनो दूषणमेव । एवं दृषणस्यानुद्भावने दोषमुदीर्यान्यथापि दोषसम्भवमाह-निरवद्य त्वि'त्यादिना । तत्र नोद्यते-न वा वदितुमर्हमित्यवद्यं 'वोपसर्याऽवद्यपण्यमुपेयतु मती गह्य विक्रेये [५ । १ । ३२] इति ध्यणि वृद्धयभावे रूपनिष्पत्तिः । निर्गतमवद्याद्-गानिर्दूषणत्वानिरवद्य तस्मिन्निति । साधन इति गम्यमत्रापि । तुः साधनविशिष्ठतादर्शनपूर्वकं दूषणस्य दूषणाऽऽभासत्वसूचनाय, विशेषणार्थत्वात् तस्य । तथा च बाधादि