________________
न्यायावतारः
०००००००००००००००००००००००००००८८००००००००००००००00000000०००००००००००ccccccOOOOOOOOOOOocce
३८
तावत् स्थानाऽशून्यार्थमुच्यते किञ्चिन् विरुद्धयोर्धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततद्न्यधर्मव्यवस्थापनार्थं साधनदूषणवचनं वादः । वादिप्रतिवादि-सभ्य सभापतयश्चत्वारि अङ्गानि । प्रमाणत: स्वपक्षस्थापनप्रतिपक्ष प्रतिक्षेपौ वादिप्रतिवादिनोः कर्म । प्रतिभाक्षान्तिमाध्यरध्यैरुभयाभिमताः सभ्याः । अग्रवादनिर्देशतत्त्वप्रकाशनकथाफलकथनान्येषां कर्माणि । प्रज्ञाऽऽज्ञैश्वर्यमाध्यस्थ्ययुक्तः सभापतिः । कलहव्यपोहजयादि निर्देशादिकं चास्य कर्म । अत्र वादीति निर्देशेन तावज्जैनैरुद्धतीभूयोच्छुङ्खलव द्वादायावतरणीयं न, बादरणाङ्गणेऽवतीर्णे चास्मिन् यथायोगं यतितव्यमेवावश्यं विज्ञाय गुरुलाघवं द्रव्याद्यपेक्षया धर्मवादादाविति ज्ञापयति । धर्मवादादिलक्षणं चेद
।
शुष्कवादो विवादश्च धर्मवादस्तथा परः । इत्येष त्रिविधो वादः, कीर्तितः परमर्षिभिः ॥ १ ॥
अत्यन्तमानिना सार्द्ध करचित्तेन च दृढम् ।
धर्मद्विष्टेन मृढेन, शुष्कवादस्तपस्विनः ॥ २ ॥
椰
लब्धिख्यात्यर्थिना तु स्याद् दुःस्थितेनाऽमहात्मना । छलजातिप्रधानो यः, स विवाद इति स्मृतः ॥ ३ ॥
परलोकप्रधानेन, मध्यस्थेन तु धीमता । स्वशास्त्रज्ञाततत्त्वेन, धर्मवाद उदाहृतः ॥ ४ ॥
पूर्वैरभियुक्ततरैरुक्तमेव । फलं चाप्येतेषां वादानां स्पष्टतर - मुक्तमेव नात्र प्रस्तूयते । किन्तु न तत्प्रस्तावमर्हति। वाद्य के क्वेत्याह'साधने' इति । साध्यते - प्रतिपाद्यते स्वाभिमतोऽनेनेति 'रम्यादिभ्यः' [ ५ । ३ । १२६] करणेने साधनं पक्ष हेतुदृष्टान्तादि, तस्मिन् वादिना स्वाभिमतधर्मव्यवस्थापनायेत्तर धर्मव्यवच्छेदाय वा प्रयुक्त पक्षादौ । यद्वा-अकारप्रश्लेषादसाधनेऽध्यक्ष लिङ्ग लोकस्ववचन