________________
न्यायावतारः
1000000000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००
व्यतिरेकः । अनादेयवचनोऽयं रागादिमत्त्वात, यस्त्वादेयवचनः स न रागादिमान् यथा सुगतोऽत्र सुगताद्रागादिमत्त्वनिवृत्त : संशयात्स. न्दिग्धसाधनव्यतिरेकः । न आप्तः कपिलः करुणाधामनि करुणया निजकललानर्पणात, यस्तु आप्तः स तुन तथा यथालोकजित् । अत्र लोकजितोऽनाप्ततायाः करुणया कललानर्पणायाश्च निवृत्तौ संशयान सन्दिग्धोभयव्यतिरेकः । न वीतरागोऽयं वक्तत्वात्, यो नैवं सनैवं यथा स्तम्भ इत्यव्यतिरेकः । अनित्यः शब्दः कृतकत्वात् यथाऽऽकाशमित्यप्रदर्शितव्यतिरेको । यतो नाऽत्र व्यतिरेकः प्रदर्शितः । तथा तत्रैव यत् कृतकं तदनित्यमिति विपरीतव्यतिरंक इयं साधर्म्यदृष्टान्तोपयोगिनी व्याप्तिरितिकृत्वा । अव्यतिरेके हि ग्रावावयवे जडत्वान्नान्यथानुपपन्नत्वनिर्णयः । अप्रदर्शितव्यतिरेकस्तु साधर्म्यदृष्टान्तभ्रान्तिकृत् । विपरीतव्यतिरेकश्च स्पष्ट एवान्वयव्याप्तितया साधर्म्यदृष्टान्तोपयोगीति प्रयोक्तुरज्ञानमेव ज्ञापयेदिति । अत्रानन्वयाप्रद. शितान्वयौ साधर्म्यदृष्टान्तेऽव्यतिरेकाऽप्रदर्शितव्यतिरेको च वैधर्म्यदृष्टान्ते न दूषणतयाऽभिमतौ कश्चित्, दृष्टान्तस्यावश्यकत्वाभावात् ।
एवं पक्षहेतुदृष्टान्तदोपानभिधाय साम्प्रतं वादस्थलोपयोगिनौ दूषणतदाभासौ निरूपयन्नाह
वाद्यक्त साधने प्रोक्त-दोषाणामुदभावनम् । दूषणं निरवद्य तु, दूषणाऽऽभासनामकम् ॥२६।। वादिनोक्ते वायु क्त, को धादी ? कथं वा वाद ? इति। तत्रार्थे विशेषमधिजिगांसुभिरेतैरेव पूज्यपादैः कृतं वादोपनिषद्वादिसर्वस्वाभिधानम् द्वात्रिंशिकाद्वितयमवलोकनीयम् । ग्रन्थान्तरं ह्यते इतिकृत्वा नावतारिते। अत्र स्याञ्च तदवतारे प्रस्तुतप्रकरणार्थस्य गौणतमता, तयोरतिभूयिष्ठतरार्थमर्भितत्वादिति । सक्षेपतस्तु