________________
३६
न्यायावतारः
B0000000000Daaaaa000000000000000000000000000000000000०००.००300000000000066000003..dd0440
वर्धिशोभि-रोचेणे-रितिपाठात् कर्त्तर्यनः । नामैवेदमिति । साधनधूमादि । युग्मं च प्रकरणात् साध्यसाधनयोरेव । तथा च साध्यसाधनो. भयरूपं युग्मम्, पश्चात् साध्यं च साधनं च युग्मं चेतिद्वन्द्वस्तेषां, अनिवृत्तेः-निवर्त्तनं निवृत्तिावर्त्तनमित्यर्थः, तस्या अभावात् वैधर्म्यदृष्टान्ते दोषा इत्यनुसन्धेयम्।वैधर्म्यदृष्टान्ते न साध्येन न च साधनेन नापि च तदुभयेन भाव्यम्। आये, साध्यव्यतिरेकाभावेन साधनाभाववत्त्वेऽपि अन्यथानुपपन्नत्वानवगाहनात् । द्वितीये, हेतोरनेकान्तिकताऽऽपत्तिः, साध्याभावेपि हेतुसद्भावात्। अन्त्ये तु वैधयंत्रमेव न,तस्य साध्यसाधनोभयाऽऽस्पदत्वेन साधर्म्यदृष्टान्तताहत्वात् । न केवलमनिवृत्तेरेव साध्यसाधनयुग्मानां वैधर्म्यदृष्टान्ताभासत्वं, किन्त्वन्यथापि । कथं ? चेदाहतत् संशयात् प्रागुक्तानां साध्यसाधनयुग्मानां संशयात । तत्र त्रिष्वप्यन्यथानुपपत्तिनिर्णयाभावात् । चोप्यर्थे । स च समुचये। तथा च संशयादपि, न केवलमनिवृत्तेः केवलाया इत्यर्थः । यद्वा-चकारोऽनुक्तानामव्यतिरेकादीनां सूचनाय । तथा च नवथैव वैधhणापि दृष्टान्ताऽऽभासाःतद्यथा-असिद्धसाध्यव्यतिरेक: असिद्धसाधनव्यतिरेकः असिद्धोभयन्यतिरेकः सन्दिग्धसाध्यव्यतिरेकः सन्दिग्धसाधनव्यतिरेकः सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्चेति । तत्र भ्रान्तमनुमानं प्रमाणत्वात , यनवं तन्नै यथा स्वप्नज्ञानमित्यत्र स्वप्रज्ञानाद् भ्रान्तत्वलक्षणसाध्यस्य निवृत्ति त्यसिद्धः साध्यस्य व्यतिरेकः । निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात, यत् सविकल्पकं न तत् प्रमाणं लैङ्गिकमिवेत्यत्र च लैङगिकात् प्रमाणत्वलक्षणसाधनस्याऽनिवृत्तिः । नित्यानित्यः शब्दः सत्त्वात्, यो न नित्यानित्यः स न सन् , यथा स्तम्भोऽत्र स्तंम्भान्न नित्यानित्यत्वं व्यावृत्त न च सत्त्वं, तथा चोभयव्यतिरेकः । असर्वज्ञः कपिलोऽक्षणिकैकान्तवादित्वात् ,यस्तु सर्वज्ञः स नाक्षणिकैकान्तवादी, यथा तथागतोऽत्र तथागतादसर्वज्ञत्वनिवृत्त : संशय इति सन्दिग्धसाध्य