________________
न्यायावतारः
..००००००००००००००००००००००००००००००००ccccc000000000००००००००००००००००००००००००००००००००००००००००
रागादिमत्त्वेन मरणधर्मवे साध्ये साधनस्य रागादिमत्त्वस्य मैत्रे संदेहात् संदिग्धसाधनधर्मता । नायं सर्वज्ञो रागादिमत्त्वात् मुनिविशेषदित्यत्र मुनिविशेषे सर्वज्ञत्वरागादिमत्त्वरूपसाध्यसाधनयोरुभयोरपि सन्देह इत्युभयसन्दिग्धधर्मा । इष्टपुरुषे दृष्टान्तीकृते व्याप्त्यभावादनन्वयः । व्याप्त्यप्रदर्शनेऽप्रदर्शितान्वयः । विपर्यासेन व्याप्तिदर्शने यथोपरि यो योऽसर्वज्ञः स स रागादिमानिति विपरीतान्वयः । अत्र दृष्टान्तस्यानुमानाङ्गत्वाभावेऽपि तत्त्वतः विपरीतदृष्टान्तेन नानेन व्याप्तिः मुष्ठ गृहीतेति बोधोत्पत्तेः, परेषां च मिथ्याबोधोत्पादान्मन्दानां श्रोतृणां स्पष्टैव दुष्टता । अनन्वयाऽप्रदर्शितान्वययोस्तु व्याप्तिमन्तरेण दृष्टान्तप्रयोगस्यानर्थक्यादेव दुष्टतेति ॥२४॥
एवं अन्वयव्याप्त्यास्पदीभूतसाधर्म्यदृष्टान्तदोषानभिधाय व्यतिरेकव्याप्त्यास्पदीभूतवैधर्म्यदृष्टान्तदोषान विभणिषुराह भट्टारकः
वैधयेणाऽत्र दृष्टान्ते, दोषा न्यायविदीरिताः । साध्यसाधनयुग्माना-मनिवृत्तेश्च संशयात् ॥२५।।
तत्र विरुद्धो धर्मो येषां ते विधर्माणः। पूर्ववदन्प्रत्ययः। विरुद्धताच साव्यनिवृत्त्या साधननिवर्त्तनं, यतोऽत्र पक्षीकृते हि पर्वतादौ वह्नयादेःसाध्यस्य धूमादेः साधनस्य च सत्ता साधनीया ।ह दादौ च नोभयं वरिव]व कुतस्तरामन्वयः ? इति, तस्य भावोवै धय, तेन,। शेषं पूर्ववत् । दृष्टान्ते दोषा न्यायविदीरिता इति । के ते ? कथं वा भवन्ति ? ज्ञेया वेत्याह-'साध्ये'त्यादि । साध्यं-साधयितुमभिप्रेतं वह्नयादि, साधन-साध्यतेऽनेन साध्यमिति 'रम्यादिभ्यः' [५। ३ । १२६ ] इत्यने ।। यद्वा साधयति-ज्ञापयति साध्यं यत्तत्साधनं 'नन्द्यादिभ्यः' ।५।१ । ५२] इत्यनो 'नन्दि-वाशि-मदि-दूषि-साधि