________________
न्यायावतारः
900000000000000833030000000000000000000000000000000019
३४
अपगतं लक्षणं पूर्वोक्तं यस्मात् सोऽपलक्षणोऽसिद्धत्वादिदोषदुष्टः, सचासौ हेतुश्चापलक्षणहेतुः । उत्थानमुत्या 'भिदामङिति अङ । अपलक्षणहेतोरुत्थोद्भवो येषां तेऽपलक्षणहेतुत्थाः । नहि साध्यसाधके सद्ध तौ भवन्ति साधर्म्य दृष्टान्तदूषणानि । यद्वाऽपलक्षणस्य- दुव्यातेर्हेतुरपलक्षणहेतु:, स उत्थीयतेऽनयेत्युत्थोद्भवकारणं विद्यते येषां तेपलक्षणहेतुत्थाः । न हि सम्यगवधारितायां व्याप्तौ भवन्ति दृष्टान्ते दूषणानि, साध्यसाधनोभयास्पदस्य दृष्टान्ततयोपादानात्वात् । न
सम्यग्व्याप्तिनिर्णयवतो मोमुह्यते मतिः कदाचनापि, साधर्म्य - दृष्टान्तप्रयोगे व्याप्तिनिर्णयकाल एवं साधर्म्य वैधर्म्यन्तानां क्रोडी करणान् । अन्यथा न प्रतिपन्ना स्यात् सम्यक्तया व्याप्तिरंव, तदन्तरेणाऽन्यथानुपपत्तितथोपपत्त्योरन्यतरस्यापि निर्णयाभावात् । दुष्टदृष्टान्तोपादानाच्च निर्णीयते निर्णयविदा यत्-नानेन व्याप्तिवबुद्धा सम्यक्तयेति सुष्ठुक्तमपलक्षण हेतूत्थाः । अथ के ते दृष्टान्ताऽऽभासा: ? इत्याह- 'साध्यादिविकलादय' इति । सिषाधयिषितं साध्यं साध्यते प्रतिपित्सुभिरिति भावे 'ऋवर्णव्यञ्जनान्तात' [५२|१|१७] इति घ्यण् प्रत्ययः । पूर्वोक्तलक्षणं तदादिर्येषां ते साध्यादयः, आदिशब्देन साधनतदुभयान्वयग्रहणं, तैर्विकलो-रहितः, स श्रादियेषां ते विकलादयः, आदिशब्देन सन्देहाभावादिग्रहः । इदमत्र तत्त्वं साधर्म्येण दृष्टान्ताऽऽभासा व्याप्त्यनवधारणमूला भवन्ति । ते च नवधा साध्यविकलः साधनविकल उभयविकलः सन्दिग्धसाध्यधर्मा सन्दिग्धसाधनधर्मा सन्दिग्धोभयधर्माऽनन्वयोऽप्रदर्शितान्त्रयो विपरीतास्त्रयश्च ेति । साध्यधर्मविकलो यथाऽपौरुषेयः शब्दोऽमूर्त्तत्वात् दुःखवदित्यत्र शब्दे (दुःखे) नापौरुषेयतेति साध्यविकलता। एवं परमाणौ नाव्यमूर्त्तत्वमिति तस्मिन् दृष्टान्तीकृते साधनविकलता । घटे त्वपौरुषेयत्वा मूर्त्तत्वयोरेकमपि नेत्युभयविकलता | रागादिमानयं वक्तृत्वान्मैत्रवदित्यत्र मैत्रे रागादिमत्त्वलक्षणसाध्यस्य सन्देह इति सन्दिग्धसाध्यधर्मा ।