________________
न्यायावतारः
.००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००.200000.
एवानेकान्तिकः स्वार्थि केकणि । इतिशब्दनिष्पत्तिरूया ॥२३॥
एवमनुमानाङ्गे हेतौ दूषणान्यभिधाय साम्प्रतं मन्दमतीन व्युत्पादयितु प्रयुक्तयोष्टान्तयोः विध्यं यत्साधर्म्य-वैधर्म्यभेदेनाग्नातं पूर्व, तत्र तावत साधर्म्य दृष्टान्तस्य अनायासबोध्यस्य दूषणानि, दृष्ट्वान्ताऽऽभासो यैर्भवति तानाह
साधयेणाऽत्र दृष्टान्ते दोषा न्यायविदीरिताः ।
अपलक्षणहेतूत्थाः, साध्यादिविकलादयः ॥२४॥ तत्र समानो धर्मो यस्य स सधर्मा, 'द्विपदाद्धर्मादन्' [७३।१४१] इत्यनि, सधर्मणो भावः साधर्म्य-पक्षीकृत इव साध्यसाधनोभयवत्त्वं सपक्ष इति यावत्, तेन । करणे 'यद्भदै'रिति वा तृतीया। अत्रानुमानोपयोगिदृष्टान्तदूषणनिरूपणे । यद्वाऽत्र-प्रतिपाद्यतया मनोधृते प्रत्यक्षे, कत्याह--‘दृष्टान्ते' । अन्तो-निश्चयः साध्यान्यथानुपपन्नत्वलक्षणः, स दृशो--निर्णीतो यस्मिन्निति दृष्टान्तः-साधनस्य साध्येनान्वयव्यतिरेकप्रतिपत्तिस्थानम् । अत्र साधर्म्यणाधिकार इति, अन्वयप्रतिपत्तेः स्थानं ग्राह्य, तस्यैव साधर्म्यदृष्टान्तत्वात्। 'दोषाः' दूषयन्ति प्रतिपिपादयिषितमर्थं हेतु वेति दोषा-दृष्टान्ताभासत्वप्रयोजकाः । न चैते कल्पिताः स्वधिया, येन वितथताशङ्कास्पदं भवेयुः । किन्तु पूर्वप्राज्ञपुरुषेरिता इत्याह-'न्यायविदीरिता' इति । तत्र प्रमाणप्रमेयनयतबाधकफलप्रमातृव्यवस्थादेनिश्चितोऽवबोधो न्यायः, नितरामीयतेऽवच्छिद्यतेऽर्थोऽनेनेति भावाकोरिति [५३।१८] घना रूपनिष्पत्तेरर्थयथार्थत्वनिर्णयसाधनानि च पूर्वोक्तान्येवेति तत्समुदायस्यैवेयं सञ्ज्ञा, या चान्वीक्षिकीत्युच्यते, तं विदन्ते-विदन्ति विचारयन्ति जानन्ति वेति किपि न्यायविदः, तैरीरिताः प्रतिपादिताः । साधर्मदृष्टान्ते दोषोद्भवकारणव्याचिख्यासयाह-‘अफ्लक्षणहेतूत्था' इति ।