________________
न्यायावतारः
00000000000000००००००००००००००००००००००००००००००००००००००cco०००००००००००००००००००००००0000000000
असिद्धस्त्वप्रतीतो यो, योऽन्यथैवोपपद्यते । विरुद्धो योऽन्यथाऽप्यत्र, युक्तोऽनैकान्तिकः स तु ।२३। अत्रानुमानप्रस्तावे हेत्वाभासप्रकरणे यः कोऽपिअप्रतीतः प्रत्यैषीति प्रतीतो, न तथा प्रतीतः केनापि प्रमाणेन न यस्यान्यथानुपपन्नत्वं निर्णीतम् । यद्वा-प्रत्ययनं प्रतीतिः, स्त्रियां क्तिविधानात् । सा विद्यतेऽस्य प्रतीतोऽभ्रादित्वादप्रत्ययः । न तथाऽप्रतीतः । अर्थस्तु प्राग्वदेव । अत्र यत्तदोर्नित्याभिसम्बन्धात्स इत्यध्याहार्यम् । असिद्धोऽसिद्धतया यः शिष्टैरभिमतो हेत्वाभासभेदः सोऽयमेव । तोरवधारणार्थत्वात् । तत्फलं तु न पक्षाऽसिद्धयादिकः, तस्य हेतुत्वेऽबाधात् । तथा यः कोऽपि अन्यथैव-साध्याभावे एव, अवधारणेन साध्यसहचारिणो व्यवच्छेदमाह । तस्यानेकान्तिकदोषदुष्टत्वात् । किमित्याह-उपपद्यते-प्रमाणेन घटमानो भवति । अत्रापि पूर्ववत्स इत्यध्याहार्यम् । स विरुद्धो विरुद्धाभिधानो हेत्वाभासः । तथैव यो हेतुरन्यथापि-साध्याभावेऽपि, अपिना साध्यवतीत्यस्यापि ग्रहणम् । अन्यथा विरुद्धत्वापातात् । तथा च साध्यवति तदभाववति च युक्तःप्रमाणेनोपपन्नो भवति-वर्तते इत्यर्थः । स प्रकृतलक्षणयुक्तः । तुरवधारणे । स चेममेवावधारयति । तथा च स एव, न तु सकलसपक्षविपक्षव्यावृत्तलक्षणासाधारणादृष्टान्तलक्षणानुपसंहारिलक्षणौ , तयोर्हेत्वाभासत्वाभावात् । अन्यथानुपपन्नत्वस्य निर्णयेऽनिर्णये च पूर्वेषामन्यतमेनावश्यं दुष्टत्वात्, सामान्य पक्षीकृत्य विशेषस्य दृष्टान्तत्वेनोपादानस्योभयमतसिद्धत्वाच । न च दृष्टान्तं व्युत्पन्नान व्युत्पाद्यानङ्गीकृत्य प्रतिपत्तरङ्गमपि व्याप्त्यग्रहणे तु स्पष्ट एवाऽसिद्ध इति हेत्वाभासस्तत्राङ्गतेति नार्थस्ताभ्यामिति समञ्जसमुक्त'-यत्साध्यतदभावववृत्तिरेवानेकान्तिकः। अत्र 'अमद्रमहमे'त्यादिर्गत्यर्थको दण्डकधातुस्तस्मात् ‘दम्यमितमी'त्यादिनौणादिके तेऽन्तो-धर्मः । एकोऽन्तोधर्मो यस्य स एकान्तः-साध्यान्यथानुपपन्नो, न तथाऽने कान्तः स