________________
न्यायावतारः
३१
1320030300506060030200300000000000000000000000000000000000000000000000000000000000000000
अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण कि ॥१।। मिति । वैशेषिकाय च पञ्चरूपेण किं भवेदिति । अन्यच्च कथमुभावष्येतौ भविता शकदोदयः कृतिकोदयादित्यत्र पक्षधर्मतां समानयेतां । तत् सूक्त -अन्यथानुपपन्नत्वमेव हेतोलक्षणम्। न चैतच्छिष्टाननुसारि, तथात्वे ह्यशिष्टस्वप्रसङ्गात् । 'शिष्टाः शिष्टत्वमायान्ति, शिष्टमार्गानुवर्त्तनादिति वचनादिति । शिष्टानुसारित्वज्ञापनायाह-'ईरित' लक्षणवेदिभिः कथितम् । धातोरनेकार्थत्वाद् गतिकम्पनार्थस्यापीरेः कथनार्थतोदुपसर्गपूर्वस्य तु भवत्येव कथनार्थतेत्येवं निरूप्य लक्षणं हेतोस्तदाभासानिरुरूपयिषुराह-तदप्रतीती' त्यादि । तस्य लक्षणतयाभिमतस्यान्यथानुपपन्नत्वाप्रतीतिरनिर्णयः तथाविधप्रमाणानुपलम्भात् । यथा सर्वज्ञत्ववक्तत्वयोर्यथा वा शब्दत्वपरिणामित्वयोरित्यादि । एवं तस्यैवान्यथानुपपन्नत्वस्य सन्देहोऽनवस्थितानेककोटिकज्ञानम् । तेन नित्यत्वप्रमेयत्वयोरिव । तथैव विपर्यासः साध्याभाव एवोपपन्नत्वं, तेन वह्निमत्त्वजलवत्त्वयोरिव । समासश्चात्रैवं-अप्रतीतिश्च सन्देहश्च विपयांसश्चा. प्रतीतिसंदेहविपर्यासास्तस्यान्यथानुपपन्नस्याप्रतीतिसंदेहविपर्यासास्तदप्रतीतिसन्देहविपर्यासास्तैः । अत्र तच्छन्देन लक्षणपरामर्शः। किमित्याह-'तदाभते'ति । तच्छब्देनात्र हेतुलक्षणलक्ष्यपरामर्शस्तथा च तद्वद् हेतुवदाभान्तीति तदाभा-हेतुतया ज्ञैरभिप्रेता अपि न हेतुकार्यसाधका इति । तेषां भावस्तदाभता, हेत्वाभासतेत्यर्थश्छन्दो. नुरोधेनैवं व्यपदेशः प्रसिद्धतरशब्दोल्लङ्घनेन । न च तेनाशिष्टता, सत्प्रतिपक्षबाधयोः पक्षदूषकत्वेन नात्रोपन्यासः । न चेमौ व्याप्ति प्रतिबध्नीतः, किन्तु पक्षप्रयोगमेव । तथा च कथङ्कारमनयोः स्याद्धत्वाभासता। तद्युक्तियुक्तमुक्त त्रिभिरप्रतीत्यादिर्हेत्वाभासत्वमिति ।
एवं समासतः समुदायेन हेत्वाभासत्वं निरूप्य तदभिधानानि पृथग लक्षणानि च निरूपयन्नाह