________________
न्यायावतारः
००००००cco०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० coc..000ccc.
च हेतोरन्यथानुपपन्नत्वम् । परैस्तु त्रिरूपत्वं पञ्चरूपत्वं शौद्धोदन्याक्षपादादिभिरभिमतं, तच्च न युक्तम् । त्रिरूपत्वं तावत् सपक्षसत्त्वविपक्षासत्त्वपक्षधर्मरूपम् ।
रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता । विपक्षे नास्तिता हेतो. रेवं त्रीणि विभाव्यता ॥१॥ मिति वचनात् । पञ्चरूपत्वं चासिद्धविरुद्धा-ऽनै कान्तिक - सत्प्रतिपक्ष - बाधरहितलक्षणमुभयमपि स श्यामो भैत्रातनयत्वादितरतत्पुत्रवदित्यत्रासदनुमाने सत्त्वाद्दुष्टमेव । त्रिरूपतायां तावत् इतरतत्पुत्ररूपे सपने सत्त्वं, दाक्ष्यादितनये विपक्षेऽसत्त्वं, तस्मिँश्च पक्षीकृते सत्त्वं च हेतोर्न केनाप्यन्यथाकत पार्यते । पञ्चरूपतायामपि अनर्थकपक्षहेतुविशेषणलक्षणाश्रयस्वरूपासिद्धिपक्षवृत्तित्वाऽभावलक्षणपक्षाऽसिद्धयभावान्न तावदसिद्धिः। न च सपक्ष-विपक्षवृत्तित्वाभावात् सपक्षवृत्तित्वादृष्टान्तयुक्तत्वाचानेकान्तिकता, साध्याभावासाधकत्वान्नापि विरुद्धता. न चास्यत्र साध्याभावसाधकं हेत्वन्तरं येन सत्प्रतिपक्षता स्यात्, न च सम्भवति बाधगन्धोपीति सुष्ठुक्त-तत्रासदनुमाने सत्त्वादेतल्लक्षणस्य दुष्टत्वमिति । ननु नास्ति विपक्ष हेतुः, परं नियमतो नेति नेति चेदायातमेवान्यथानुपपन्नत्वम् । तथा चैकमेव तदस्तु, किं तत्त्रयेणेति । शकेत च शङ्काकुलो यच्छयामत्वे साध्ये शाकपाजत्वं ह्यपाधिः । साम्यव्यापकत्वे सति साधनाव्यापकत्वं हि तस्य लक्षणम् । यथा पर्वतो धूमवान् बहोरित्यत्रार्द्वन्धनसंयोग उपाधिर्विद्यते चाट्टैन्धनसंयोगव्यापकता धूमे, न चास्ति वहिलक्षणे साधने-अयोगोलकादौ साधनसत्त्वेऽपि तदभावादेवमत्रापि । ननु क्वाव्यापकता साधनेनेतरस्य तत्पुत्रस्यान्यरूपस्याभावादितिचेन्नायं नियमो-यच्छ्यामत्वं तत्पुत्रत्वेनेति तेनाच्यापकतेति चेदायातमेवान्यथानुपपन्नत्वं, किं पञ्चरूपत्वेनेति तदुक्तम् ।
'नान्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ।