________________
१४
भ्यायावतारः
00000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००00000000000000000
ज्ञानस्य स्वपरप्रकाशकत्वात् प्रकाशयतु तदप्यात्मानम । तत्त्वतस्त्वात्मैव स्वपरप्रकाशकः, येनाहं मनोयुक्त इत्याद्यपि प्रादुर्भवदवेक्ष्यते ज्ञानं, तन्न विरोधमधिरोहेत् । स्वपरिमाणमप्येवं सति ज्ञेयं स्यात्, महच्चित्रमन्यथा, यत्स्वय स्त्रपरिमाणं न वेत्तीति चेत् कः किमाह ? । तेभ्य उपालम्भ एष, येऽनुभवापलापपापपूरप्रचुरमलीमसारमानः शरीरमात्रतां न स्वीकुर्वतेऽध्यक्षसिद्धामात्मनः । वय त्वभिदध्महेयच्छरीरमानोयं जीवो, वक्ति च स्वयमपि यदुत-जखशिखान्तमहमेवेति । अत एव वक्ष्यन्ति सूरिपादा यत्-'स्वसंवेदनसंसिद्ध' इति । यञ्चोक्त-नाध्यक्षसिद्ध विप्रतिपत्ति'स्तदपि न विचारितम् । यतोऽऽस्त्येवाध्यक्षसिद्ध प्यध्यक्षापलापपातकिनां वेदान्तिनां शून्यवादिनां च भूतसमुदाये विप्रतिपत्तिः, नैतावता तानि न सन्ति । न चाध्यक्षसिद्धेऽवयविनि स्थाष्णी च पदार्थे न क्षणिकवाद्यादीनां न विप्रतिपत्तिः, अस्ति चेत्. किमु भूतसत्तावयवित्वादि [किमिति] स्वीक्रियते भवतालीका चेत्तेषां विप्रतिपत्तिस्तदा किं नात्र विचार्यते। तथा चेतना चेदनुभवसिद्धा, जीवा अपि तथव, यथा घटरूपादीनां प्रत्यक्षाद्घटादयोऽपि व्यवह्रियन्ते प्रत्यक्षा इति । न च रूपाद्यन्तराऽन्यत् किमपि द्रव्यमवलोक्यते । तद्वदत्रापि ध्येयं निमील्य नेत्रे बोद्ध भिः । यदवादि च-'न प्रत्यक्षतराणां प्रमाणत्व'मित्यादि । तदप्यविचारितरमणीयम् । यतो भवता केन तदप्रामाण्यमधिगतम् । । न प्रत्यक्षेण, तस्य प्रवर्त्तनामात्रपरायणत्वात । विसंवादाच्चेन्मानसमेवैतत्समालोचनं परोक्ष च तदिति स्पष्ट एवं व्याघातो वदतां भवतामेवम् । न च परैरभिमत. मितरत्तत्प्रमाणतयेत्युच्यते इति वाक्यं वचनीयम् । यतो भवता तस्यानुमानस्येतरप्रमाणाप्रामाण्यव्यवस्थापकस्य प्रामाण्यमभ्युपगम्यते न वा? । आद्य, प्रकटैवापन्ना बलात्कारेणाप्यनुमानप्रामाण्यता। अन्त्ये च, न निषिद्ध स्यादेवं प्रामाण्यमनुमानस्येत्यायातो 'न निषिद्धमनुमत'मितिन्यायेन तत्रैव । कथं च नैवमाप्नोसि प्रामाणिकपर्षदि निग्रहस्थानम् ?, परपक्षानुमतेः 'प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते' आयाता।