________________
१२८
न्यायावतारः
000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००06066066.
स्याच्चेद्,योग्यमुक्त, परमुदीक्षणीयमेतत्, यदत्रैव जनुपि परकृतकर्मानुसारेणेतरेषामपरप्रेरणं भवति वधाय दानाय वा परिणति: केवलकर्मसात्राज्यात तर्हि तेनैवैतस्यात्रागमने किमाञ्चर्यम् । न च नोद्यं . कथमचेतनानि कर्माणि यथायोग्यं गत्यन्तरं प्रापयेत्तद्वन्तम्। लोहो. पललोहयोरचेतनेपि विनैव परप्रेरणां दृश्यते एवाकर्षस्तथा चोत्तममध्यमाधमकर्मणां वैचित्र्यात् किमिति न घटां प्राञ्चति यथार्ह गतिप्राप्त्यादि, येनादृष्टासम्भवितकल्पनागहने प्रवेशः प्रविष्ठविवेकानाम् । अकर्मकत्वे च कथं नानुचितिपदवीमञ्चतीश्वरस्य, नेषां क्षित्यादित्वेन वैवम्यापादनम् । न चैकमप्यन्तरेण जीवेयुनराः तित्यप्ते जोवायूनाम् । न च तान्यपि स्युरेकैकमन्त।। तन्नाकर्मभिरप्यात्मभिः सृष्टिसृष्टिः सृष्टिसर्जनपटिष्ठोटाकोटिमेति । किञ्च-प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्त्तते' इति न्यायात किमर्थमसौ यत्न आस्थीयत ईश्वरेण ? सति तस्मिन् स्पष्टैवाकृतार्थता । अन्त्ये च प्रेक्षापूर्वकारिताऽभावः। न चेश्वरे न तद्दषणं, निःस्पृहत्वेन गुणत्वादितिचेत्, तन्न वरं, यतो निःस्पृहत्वं परोपकाराय स्वोपकाराय वा स्यादत्र तु तस्य कृतार्थत्वादितरेषांअल्पानां सुखविधानेऽपि बहूनां दुःखजम्बालविमोहनाच न तल्ल शोऽपि । एतेन कैव तीर्थकृतां तीर्थप्रवर्त्तने फलप्रातिः ? अस्ति चेत्, स्वार्थपरायणता । नास्ति चेद्, नोत्तमनीत्यनुसारितेति मूढोल्लापो निरस्तः । ते हि पूर्वजन्मन्येव परोपकारप्रवणेकान्तःकरणतयाऽभान्त्सुः तीर्थकृत्कर्म प्रवचनप्रवर्त्तनायेति न तेषामकृतार्थता निष्फलारम्भता वा । प्रवर्त्तयति च शासनमजरमरणमभयकरं तृतीयौषधवत् सर्वगुणं तदुदयेन । नामकर्मत्वाञ्च न पराधीनतापत्तिरात्मगुणानाम् । न चायनं वेद्यते तत् कर्मेति दिक । न चैवमीश्वरस्यास्ति कर्मलेशोप्यभ्युपगतो भवता । किञ्च-सर्वशक्तिमत ईश्वरस्य किमित्यसम्भविन्यण्डादिक्रियोपरफुरुते ? कथं च ततः प्रादुर्भावोऽस्य सचराचरस्य ? इति विचारयन्तां स्वयं विज्ञाः । न ह्यवं कल्पनामात्रेण भवति पदार्थप्रादुर्भूतिः । कथं च सर्वथा निःसङ्गत्येश्वरस्य भवेत्