________________
न्यायावतारः
१२६
00000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
कल्पनाप्रसङ्गः कथं वा नाभूदर्वाक् नित्यत्वेनावस्थितत्वात्तस्य । नहि तस्य कल्पनासम्भवेऽस्ति कारणं किञ्चित् । करुणा तु पूर्व निरस्तैव विधातुर्विधातृत्वे । कथं च कुर्यादसौ करुणया विधानो लोकं दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलं, येनोद्भवेदेतादृश उल्लायोऽनिवार्यः। - यदाहुः-दुःखदौर्गत्यदुर्योनि-जन्मादिक्लेशविह्वलम् ।
जनं तु सृजतस्तस्य कृपालोः का कृपालुता ? ॥१॥
कथं च नामार्वाक सृष्टे जनाभावाद् दुःखसम्भवो, येन करुणोद्भवः सम्पद्यत सम्भावनापदम् । अपरं च किमसौ शरीरमुपादायैतत् करोत्यन्यथा वा? | आद्ये, कर्माणुरहितः कथमुपादत्ते ? सर्वदा वा किमिति नोपादत्त ? कियत्परिमाणं वा तद् ? जगत्परिमाणे तस्मिन्नुपादीयमाने अन्यकरणीयावकाशाभावः । परिमाणवत्ति च सर्वव्यापिस्वाभावेन सर्वत्र क्रियाविरहः । तथा च तत्र स्वयमेव क्रियाऽभावः । अन्यकर्माणूपादाने तु स्पष्टव कृतनाशाकृताभ्यागमप्रसङ्गापतिः । सूक्ष्मशरीराभ्युपगमे च स्पष्टव स्थूलपदार्थभूभूधरसरित्सरित्पत्यादिकरणायाऽयोग्यता । स्थूलसूक्ष्मयोर्भेदाभावेऽरत्येव सर्वेषामदृष्टं सूक्ष्ममिति किं विश्वविधातूदूषणेन । विचारणीयमावश्यकमेतद्यदुतविश्वविधात्रभ्युपगम्यश्चेत्, कोऽसौ ब्रह्मा प्रजापतिः शक्तिः प्रधान यावनीयो वा कोपि ? यतस्तेप्याख्यान्ति-यदिष्टमीश्वरेण जायतामाकाश, जातमवलोकितम् चारु । जायतामुद्योतो जातो चीक्षितः सुन्दसे दिवस इति चक्रऽभिधा तस्य । अन्धकार उद्भवतु जातो, रात्रिरित्यभिदवे ताम् इत्यादि । यदि विहितमेव स्याद्विश्व केनापि, किमिति स्वापलापिनस्तादृशानऽकरिष्यदसौस्वासममहिम(मलि)म्लुचः यदापि जेगीयते श्रुतिस्मृत्यादि । तत्र विचार्यते तावत्-को ब्रह्मा प्रजापतिःशक्तिर्वा । तत्र प्रश्नोपनिषदि दृश्यतां, यदाह तत्र-संवत्सरो वै प्रमापतिस्तस्यायने दक्षिणं चोत्तरं च ॥९॥ मासो वै प्रजापतिस्तस्य