________________
न्यायावतारः
000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
यतां जलाञ्जलिः सर्वैश्वर्यवादस्य । तथा च यद्गीयते
झानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च, सह सिद्धं चतुष्टय ॥१॥ मिति ।
तदलीकमेव। अलीकगुणोत्कीर्तनेऽपि च स्पष्टैवातितीव्रा मृषाचादि. तेत्यत्रबुद्धपूर्वमेव प्राज्ञानामस्तीति । शिक्षणायापि तत्करणमनुहरत्यनार्यक्रियां हास्यायाऽन्यप्राणिबाधनामिकाम् । यतः सत्यपि शक्तिनिकरे कैषां पामरजनोचिता रीतिः ? स्वकृतत्वात्तस्य न तथात्वे चेद् बन्धः, कथं पुत्रवधे पितुः ? । अन्यच्च-तदर्थं चेत्, किमिति न चक्रेऽत्रैव नरकादिकं प्रत्यक्षं, येन लोकः कोऽपि न चार्वाकमतानुगो भवेत् । कोपि न च विदभ्यात् पापलेशम् । नृपाज्ञामिव प्रतिक्षणमनुपालयेचान्तःकरणत एव तदाज्ञां शेषामिव । कथ च न सोपि जगज्जीवदुःखीकरणानार्हति शिक्षाम् ? । कथं वा तङ्कजनाद्भावुकभावुकोद्भवोभावुकानाम् । नहि न्यायकारिणां युक्तमेतद्यदुत-स्वसेवातोऽपराधकारिणां मुक्तिरन्यथाऽनपराधानामपि बन्ध इति । अन्यच्च -जीवैः कर्माणि स्वयं कृतानि तेन कारितानि वा ? |आये, यथैवाशुभसमाचारादुपार्जितमशुभं तैस्तथोपभोगमपि तस्य कुर्याञ्च कोदोषः । किञ्च तथात्वे प्राणवधादिकमेकस्य पूर्वकृताशुभकर्मविपाकीभूतं यत्तदेवान्येषां नूत्नतत्समर्जनायेति न स्यान्नियमः। तस्य फलरूपत्वेनेतरस्येश्वरकारिताङ्गीकारात् । तथात्वे च पूर्वजन्मनीह परत्र च न कोपि कस्यापि कर्मणो बन्ध ईश्वरकारितत्वात् स्वयं तदकरणात् । तत् कैव कर्मबन्धस्थित्यभावे तत्फलदानस्थिति: । अन्यच्च-यदत्र विदधातीष्ट भवयोऽनिष्ट वा तच्चेदीश्वरकृतं, न तस्य शुभायेतरस्मै वगा। स्वयं कृतं चेदाजन्म विनेश्वरेण प्राणिनां सम्पद्यते पूर्वकर्मानुसारेण शुभाशुभफलानुभवः तर्हि किमीश्वरेण ? । जीवस्य स्वयमज्ञत्वाद् गत्यन्तरे तादृशे निदधात्यसौ, यत्र स्वयं स्वकृतादृष्टफलोपभोगायालम्भूष्णुः