________________
१२६
न्यायावतारः
.०००००००००००००००००0000000000000000000000००००००००००००००००००००००००००००००००००००000000000000
कश्च गुणोऽस्य प्रलयकरणेन परमाणुपुञ्जस्य, को ह्य वमुत्पाद्यतयाभिमतं विज्ञो विनाशयेद्वर्त्तमानम् । अनुत्पन्नश्च दनादित्वादस्तु जगदपि तथैव काहानिः । कार्यत्वादिकं तु निराकरिष्यत एव । यद्वाकथं न तस्यापि कार्यता, नित्यत्वाच्चेदितरेतराश्रयः। सिद्ध हि नित्यत्वे कार्यताभावः तस्मिँश्च सिद्ध नित्यतासिद्धिः । अथवा अस्तु जगतोऽपि कार्यतारहितत्वम्, अन्यथा स कुहास्थादवाक् सृष्टयु त्पत्तेः, क वा वर्णितमेकार्णवतादि सृष्टयनुत्पत्तेः स्थितमिति विलोकने विचाररहितेऽर्थेऽङ्गीकृते योग्यतामनुभवत् खविलोकनं भवतामपि भवत् केन वार्येत ? आकाशे चेत् जीवन्तु परं स कुतोऽनादिर्मतः। आत्मन आकाशः सन्भूत इति त्वौपचारिकमेवोत्पादवणनम् । अमूर्तस्योत्पादाभावान्न तस्योपादानकारणं किञ्चिदस्ति, यनोत्पाद्येताऽसौ निर्मयत्वादनवयवित्वाच्चेत, सत्यमुक्तं परमालोचयन्त्वेवं जीवे, सोप्येवंविधो न वा ? यद्यपि न योग्यमुक्तमनवयवित्वादिति । इहाकारो इदमिहाकाश इदमित्यवयवप्रतीतेघंटादेमहतो यद्यनेका अवयवाः तर्हि किं न स्युस्ततोऽतिमहत आकाशादेः, परमन्यदेतत् । जीवा अपि 'न जायते म्रियते वा विपश्चिदिति वाक्यात् नित्या एवेति न ते उत्पादिता इति चेत्ते के सकर्माणोऽभूवनकर्माणो वा? आये, तत्कर्मक कृतं? पूर्वसर्गे चेत्, कथमेतावत्कालं न फलितम्। विपाककालेऽपश्यं फलदानस्वभावं हि तत्, अन्यथा तदभ्युपगमवैयात्। पूर्व यदि फलदानपट्वेव तदासीत् तदा नास्थूल शरीर उपभोगः कर्मणामिति बलात्कारेणाप्यायातं जगतोऽनादित्वम् । यदि च कर्मणां तत् सामर्थ्य स्वयमीश्वरेण तदपेक्षया दीयते चेत्, तानि शिखण्डीभूतानीति व्यपेक्षेश्वरस्य तेषां, तथात्वे च सर्वशक्तिसमन्वितस्य न करुणा कापि, येन दुःखदुर्गदौर्गत्यविह्वलं जनं सृजति, जगति च बहव एव दुःखभोगिनो, विशेषेणेक्ष्यते चेत् न कोऽपि सर्वथा सुनिधानम् । कथं च तेन प्रथमत एव दुष्कृतकरणकाले एव न निवारिता जन्तवः ? का चैषा मदमत्तता ? यत् सत्यपि सामर्थ्य दुराचारात् पाल्यानां नावनम् । न सा शक्तिः चेदी