________________
११४
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००00000000000000000000003000
यदेवमुपसमजिहीर्षिषुः तन्नेतदनाभोगविलसितमप्रक्रान्तं वा किन्वादित एवावधारितं निरूप्यतयेति ज्ञापनाय । तेषां प्रमाणादीनां व्यवस्था, व्यवतिष्ठन्ते-सम्यक्तया स्थिरीभवन्ति न नश्यन्त्यनया प्रमाणादय इति व्यवस्था । स्थो वा [५॥३॥६६] इति का वचनादङि स्त्रियां व्यवस्थाऽङन्तस्य स्त्रीत्वनियमात् । व्यवस्था मर्यादा इत्यर्थः । का ? इत्याह-इयमिति । यद्यपि 'इदमस्तु सन्निकृष्ट' इत्यनेन प्रत्यक्षीभावमापन्नायामेव व्यवस्थायां युज्यते वक्त म्, न च व्यवस्था के नाप्यन्द्रियेणाधिगम्यते नैवावक्ष्यन्तेयमिति । परं प्राक् प्रोक्ता सर्वाऽपि हृद्वि. वरवर्तितया मानसप्रत्यक्षैवेति इदमा निर्देशः । कीदृशेत्याह-अनादिनिधनात्मिका इति । तत्र आदीयतेऽनेनेत्यादिः 'उपसर्गादः' किरिति वचनात् । नीति नितरां दधाति धारयति, पर्यायाऽन्यत्वं वर्तमानपर्यायविगमं वेति 'तुदादिवृजिरञ्जिनिधाभ्यः किदिति किदने निधनमिति पर्यवसानम् ।आदि च निधनं चादिनिधने, नादिनिधने यस्य सोऽनादिनिधनः, स एवात्मा स्वरूपं यस्याः साऽनादिनिधनात्मिका । अत्र 'शेषाद्वा' [७३।१६५] इति कचि आखियामाबित्यापि 'अस्या यत्तरिक्षपकादीना [२।४।१११] मितीकारे च रूपसिद्धिः । अनेनास्या अकृत्रिमतामाहुः । उक्तंच पूर्वमेव प्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृत' इति पूर्वार्द्धनायमर्थः । यतो 'न कदाचिदनीदृशं जगदिति कृत्वा । यद्वा-सृष्टेरस्याः शाश्वतत्वात् तद्गतलोकानामपि शाश्वतत्वं, तेषां शाश्वतत्वे च सुतरां व्यवहाररहितजीवनाभावाद् व्यवहारस्यानादित्वम् । तथैव प्रलयस्याप्रामाणिकत्वादेवानन्तत्वम् ।
ननु च विश्वस्यैव तावद् ब्रह्म-प्रकृत्यादिना जनितत्वे कथमियं अनादिनिधनामिका भवितुमर्हति ? न भवत्येव । ग्रामाभावे सीमा । यदि च नामूवन व्यवहारकर्तार एव कथ भवेद् व्यवहारः ? न च विश्वस्य विश्वाधिपतिविहितत्वमसिद्धयेनैषा कल्पना स्याल्लघीयसी । किन्तु युक्त्यागमाभ्यां सुसिद्वमेव । यतो जन्तुर्हि मया किं