________________
न्यायावतारः
११५
.०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
सुखं दुःखं वा वेदितव्यमिति न जानात्येव । तदज्ञाने च कुतस्तरां तदुपायेषु प्रवृत्तिं विदध्यात् । इष्टकारणतादिज्ञानजन्यत्वात्तस्याः । कथं चादृष्टस्वर्गश्वभ्रादिमार्गो गच्छति स ? तदवश्यं तनियोजन भाव्यम् । नाज्ञानिनस्तिर्यञ्चः स्वयं प्रभविष्णव इष्टानिष्ट ज्ञातु तत्र प्रवर्तितुवाभीप्सितनगरगतौनियोजनीया एव तेऽधिष्ठात्रेति । तदुक्तं'अज्ञो जन्तुरनीशोय-मात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्, स्वर्ग वा श्वभ्रमेव वा ॥१॥ इति
कथं चाचेतनानि भूतानि जन्तूनामुपकारायापकाराय च प्रभवन्त्य नधिष्ठितानि । नहि निशितापि करवाललता छिनत्ति पाशादिकमनधिष्ठिता अधिष्ठात्रा । जन्तुश्च न समर्थो ज्ञातुतानि तत्सामर्थ्य वा, किमुत तान्यधिष्ठातुम्, तद्भाव्यमेव विश्वशक्तिभृता विश्वविधात्रा। न के चलं पारलौकिककार्योपयोगितया तत्सिद्धिः, किन्त्वैहिकपारलौकिकोभयोपयोगितयैव तस्य साधिष्ठातृत्वसिद्धिरप्रत्यूहितैव । यतो दरीहश्यमान सचराचरं जगद्विशिष्टाकृतिमत्त्वात् सकर्त्त कमेव भवेत्। विशिष्टाकृतिमत्त्वेन कार्यतान्वितत्वात् । नहि घटादिकं विविधाकारभृत् स्वयमेव प्रादुर्भवदवलोकितम् । तथात्वे च न कार्यः स्याद्यत्नः केनापि कस्मैचिदपि, स्वयं सिद्धयमानत्वात् पदार्थानां, क्रियते च यत्नो भवदीयैराप्तैरन्यैर्भवद्भिरपि चेत्यायातं यवक्रीणनन्यायेन कार्यजातस्य सकत कत्वम् । तथा अध्यक्षं चरीक्रियमाणोऽणुसमुदायो विशिष्टसामर्थ्यवता योजित एव, अण्वादीनां स्वयं चेतनाविकलवाद् गत्ययोगात्। क्रियतेच गृहाधु पचयार्थिभिस्तदुपचयनादिको यत्नः । तद्भाव्यमेव केनाप्यचिन्त्यशक्तिमतैषोऽन्वतमीक्ष्यमाणो जगत्तापरिणतोऽगुसमूहो येनैकत्रितः स्यात् । तथैवोदीक्ष्यमाणाः सूर्यादयो यवधृता आकाशे निरन्तरं समर्यादं तिष्ठन्ति, तन्नाकर्त्त कम् । नहि मूत्तं द्रव्यं महदप्रयत्नमधरीभावं तिष्ठति कदापि । तद्भाव्यमवश्यं केनचिदपि तद्धारयित्रा। न चैष विषयोऽस्मदादीनामित्यसममहिमनिलयविहितत्वमव्या