________________
न्यायावतार:
०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000000
हतम् । अन्यच्च-यद्यद् वाक्यमवेक्ष्यते क्षितितले तत् पूर्वप्रकल्पितस
क्रेतानुसारेणार्थवत्तया आड़ो सकेतकल्पकश्च तथाविधः कोपि स्वीकार्य एव तादृशो, यदुपक्षमवेक्ष्य सड्के तादिप्रवृत्तोयमखिलो बुद्धिमदाधारो वाक्यव्यवहारो वाच्यवाचकभावमूलः । एवमर्थावधारणं वाक्यादिकमपि च सविधातृकमेव । यद्वा-न केनाप्यनध्यापिता प्रती. यते सङख्या तदर्थ चर्करोति च सर्वोऽपिलोको बालकानां पाठनााद । तथा च भाव्यतथाविधेनैकेनादौ प्रवर्त्तयित्रा, येनेयमाविश्चक्रे लोकेभ्य इति । न चेदं स्वमनीषिकाविजृम्भृितमेव, किन्तु विद्वदुदाहृतमेव ।
तदुक्तं कार्याऽऽयोजनधृत्यादेः, पदात् प्रत्ययतः स्फुटम् । वाक्यात् सङ्ख्याविशेषाच, साध्यो विश्वजिदव्ययः' ।।१।।
आदिशब्दाचात्र नाशादिग्रहः । नहि नाशोपि भवति मूर्तद्रव्यस्यैवमेव, घटादिनाशस्य स्पष्ट प्रयत्नजन्यत्वं निष्टयते इति । भागमेपि-द्यावाभूमि जनयन् देव एकः विश्वस्य कर्ता भुवनस्य गोप्ता। असदेवेदमन आसीत् । ब्रह्म वेदमग्र आसीत् । मया अध्यक्षेण प्रकृतिः सूयते सचराचरं तपाम्यहं वर्ष निगृह्णामि उत्सृजामि च ।
आसीदिदं तमोभृत-मवितर्यमलक्षणम् ।
सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत् ॥१॥ इत्यादिष्वनेकेषु श्रुति-स्मृत्यादिषूपलम्भात् कर्त्त त्यस्य स्पष्टमेवाभिमतं विश्वस्य विश्वाधीशविधातृत्वम् । न च युक्तयाऽऽगमप्रतिष्ठितमर्थं प्रतिष्ठितप्रतिष्ठावन्तोऽप्रमाणयन्ति । तथात्वे समूलं क्षयापत्त प्रतिष्ठायाः । सति चैवमादिभावे विश्वभावे कथङ्कारं स्यादनादिनिधनत्वं प्रमाणादिव्यवस्थाया इति चेद् ।
अत्र प्रतिविधीयते-यत्तावदुक्त 'विश्वस्यैवेत्यादि । तत्र साधयिष्यते व्यवहारकर्तारः अनादिका इति कर्तत्ववादस्याप्रामाणिक