________________
न्यायावतारः
00000000000000000000000000000000000000000000000000000000000000000000
१२
ज्ञानमयत्वात् निश्चितमित्यनुमानेऽप्यभ्रान्तत्वसिद्धिः । एवं परोक्षान्ततानां स्मृत्यादीनां यथायथं लक्षणादि विधाय तथाभूतस्यैव परलोकविधिसौधस्तम्भभूतश्रीशाब्दप्रमाणम्य लक्षणमाविश्चिकीर्षुराह तावल्लोकलोकोत्तरसामान्यं शाब्दलक्षणं
दृष्टेष्टाऽव्याहताद्वाक्यात्परमार्थाभिधायिनः ।
तत्त्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्त्तितम् ||८||
दृष्टं चतुर्दर्शनादिना घटपटादि, इष्टं सुखादि, ताभ्यामव्याहतात् - अविरुद्धाद् एतादृशात् वाक्यात वर्णशब्दादिसमूहात्मकादर्थद्योत कात, उत्पन्नं ज्ञानमितिगम्यम् । शाब्दं मानं प्रकीर्त्तितमिति सम्बन्धः । पुनः कीदृशाद्वाक्यादित्याह-'परमार्थाभिधायिनः' परमार्थीयथास्थितत्वं तात्पर्यं वा तदभिधानशीलं परमार्थाभिधायि, तस्मात् । कथमुत्पद्यते ? इत्याह-यद्वा-षडपूपाः दश दाडिमानीत्याद्यसम्बन्धानामपि प्रामाण्यप्राप्तौ प्रोक्तवान्- 'तत्त्वप्राहितया' तस्य वाक्यस्य तत्त्वंस्वरूपं, यथावस्थितार्थत्वं, तद्ग्रहणशीलतया यदुत्पन्नं - वाक्यश्रवणतः प्रादुर्भूतमात्मनिं ज्ञानं तत् शाब्द-आगमाख्यं, मानं प्रमाणं प्रकीर्त्तितंप्रकर्षेण युक्तियुक्ततया गदितं प्रमाणलक्षणलक्षकैः । अत्र च नास्तिकमतानुयायिनां दृष्टाऽव्याहतत्वमस्तीतिीष्टेति । नहि जीवाद्यपलापश्चतनावत प्रतिप्राणिस्वसंवेदनसंसिद्धतया जीवस्येष्टः केषाञ्चिदपि । परलोकमोक्षादीष्टाऽव्याहतत्वेऽपि बौद्धाक्षपाद - कपिल - कणाद-वेदानुयायिनां प्रत्यक्षादिप्रमाणप्रथासिद्धस्याद्वादापलापलीनत्वाद् दृष्टेति । तारा बोटिकादिविनिकरस्य स्यादित्याह - 'परमार्थेत्यादि । नहि तेषां स्वात्मद्वेषिणां वचनानि पदार्थस्य यर्थार्थता पराणीति । सत्यपि वाक्यस्य दृष्टेष्टाव्याहतत्वे परमार्थाभिधायित्वे च न सर्वे श्रोतार: समभावप्रतिश्रोतारः सम्पद्यन्ते । यत आह