________________
न्यायावतारः
.000000000000000000ccato000000000000000000000000००००००००००००००००००००००००००००००००००००००००
त्येव स्यादन्यथा भ्रान्तत्वापत्तेः । पदार्थयाथार्थ्यानुपातित्वं च द्वयसिद्धौ-ज्ञानज्ञेयलक्षणपदार्थयुग्मसम्भव एव प्रसिद्धयति-प्रकर्ष याथातध्येन अनाविलसिद्धिपदवीमध्यारोहति । नहि तमस्तोममनपाकुर्वन् दरीदृश्यमानमर्थजातं चासाक्षात्कुर्वन् दीपो दीपतां लभते । एवमत्रापि ज्ञेयम् । आत्मपुद्गलाद्यर्थजातं यदि न स्यात्तर्हि दृश्याभावाकथं दर्शनं ? । सति दर्शनाङ्गीकारेऽवश्यं दृश्याङ्गीकारः, करणस्य कर्माविनाभावित्वात्। 'द्रष्टाच प्रमाते' त्यादिना श्लोकेन निदिष्यति । तन्नात्र तच्चर्चा । परमार्थतस्तु दध्यानयनचांदनया तदाधारानयनचोदनावरकरणरूपे ज्ञानेऽङ्गीकृते ज्ञाता ज्ञेयं चावश्यतयाङ्गीकार्यम् । स्वतन्त्रः कर्ता, व्याप्यं कर्म, साधकतमं च करणमितिव्युत्पादितत्वाद्विपश्चितापश्चिमैः । अत्रेयं भावना - प्रमेयाव्यभिचारित्वं हि प्रमाणस्य प्रमाणत्वम् । तच्च न प्रमेयमन्तरा । तथाभवद्विज्ञानमप्रमाणमेवामन्यते मुनिभिः, भ्रमस्यैतल्लक्षणत्वात् । सङ्गीर्यते च ज्ञानस्य प्रमाणतोमाभ्यामन्यथा स्ववचसैव स्वमतानृतत्वाङ्गीकार - प्रसक्तेः । अप्रामाणिकस्य तथात्वादेव । न च ज्ञानं क ज्ञानं कर्म ज्ञानेन करणेन जानातीति क्रियादियोग्यतेति नाथोंऽन्यज्ञेयेनेति वाच्यम् ज्ञानस्यैव तावत्वपराभासित्वात् सत्येव परस्मिस्तस्य तथात्वं, इति द्वर्यासद्धयनान्तरीयकमेव प्रमाणत्वम् । यद्वा-पूर्वश्लोके क्रमेण साधनविकलता साध्यविकलताऽनुमानप्रामाण्यव्यवस्थापने प्रत्यक्षरूपस्य दृशान्तस्य पराकृता। अधुना तूभयविकलता तस्यातन्यते 'सकले'त्यादिना । व्याख्या चैवं कार्या- सकलप्रतिभासस्य-समस्तस्पष्टज्ञानस्य स्फुटं प्रतिप्राणि स्वसंवेदनसिद्धतया भ्रान्तत्वासिद्धितः - अयथार्थ - साननुभवात्, प्रमाणत्वविनिश्चायि-प्रमेयाभिचारित्वनिर्णयकारक अभ्रान्तत्वमिति गम्यते, तत् द्वयसिद्धौ-प्रत्यक्षप्रमाणरूपे दृष्टान्तेऽभ्रान्तत्व - प्रमाणत्वलक्षणसाध्यसाधनयोाप्तत्वेनोपपन्ने, प्रसि - द्धयति-युक्त्युपपन्नं भवति । प्रत्यक्षप्रमाणे प्रमाणमभ्रान्तत्वाविनाभूतमिति निर्धारितम् । प्रमाणत्वं चानुमानेऽपि, प्रमेयाव्यभिचारि