________________
१०
न्यायावतारः
000000000000000000000000000000000000000000000000000000000000000006666666009
तस्मान्निर्गतं इति साध्यविकलता दृष्टान्तस्याऽविक लैवेत्यत्राह 'भ्रान्त' मित्यादि । यद्वाऽभ्रान्तत्व प्रमाणत्वयोरन्तर्व्याप्ताद्भवन्ती मारेकां निरस्यन्नाह - 'भ्रान्त' मित्यादि । भ्रान्तं अयथार्थ, प्रमाणं - यथार्थ ज्ञानं बाधवर्जितं स्वपराभासि इत्येतत् एकस्यैव परस्परविघातकधर्मवत्त्वा भ्युपगमपरं वचनं वाक्यं यतः विरुद्वं, माता मे वन्ध्येत्यादिवद् विरुद्धताव्रातम् । न हि यद्भ्रान्तं तत्प्रमाणं यत्प्रमाणं तद्भ्रान्तं वा भवितुमर्हति । तद्वक्ता च नाप्नोत्याप्त पर्षद्युपवेशनार्हतां, अभ्युपगतापलापेन विरुद्धतानवत्रोधेन वा निग्रहस्थानगतत्वात्तस्य अत्रेद मैदम्पर्यमभ्रान्तत्वविरुद्धस्वभावं हि प्रमाणत्वम् । तच्च प्रत्यक्षे समवेयत् भ्रान्तत्वं निवर्तयेत् तस्मात् स्वव्यापकं चाभ्रान्तत्वं समानयेत् इति निश्चितेभ्रान्तत्वप्रमाणत्वयोर्व्याप्तिभावे सङ्कलितप्रमाणत्वान्न प्रत्यक्ष भ्रान्तं । तद्वदेव चानुमानमपि प्रमाणत्वाश्रय इति न भ्रान्तत्वास्पदम् । इति सुस्थितं अनुमानस्य प्रसङ्गात् प्रत्यक्षस्यापि प्रमाणत्वम् । अथ प्रमाणलक्षणशुद्धये ज्ञानमेव तत्त्वं नान्यदिति सिद्धान्तयतो बौद्धविशेषान्, एकमेव ब्रह्मद्वितीयं नास्तीत्यभिनिविष्टान् प्रत्यक्षप्रेक्ष्यमाणजगज्जालमालमाचक्षाणान् वेदान्तिनः शिक्षयन्नाह -
"
सकलप्रतिभासस्य, भ्रान्तत्वासिद्धितः स्फुटम् । प्रमाणत्वविनिश्वापि द्वयसिद्ध प्रसिद्ध्यति ||७|
प्रमाणं स्वपराभासि बाधवर्जितं ज्ञानमिति निर्णीतं प्राक् । तादृशस्य सकलप्रतिभासस्य - समग्रज्ञानस्य, स्फुटं प्रकटं यथा स्यात्तथा निश्चितं ' भ्रान्तत्वासिद्धित:' प्रमाणत्वलक्षणव्यापकतयाऽभ्रान्तत्वलक्षणव्यापकवत्त्वनिश्चयेन भ्रान्तत्वव्याहृतेः प्रत्यक्षादिज्ञानस्याभ्रान्तत्वसिद्धिः । अभ्रान्तं च सकलमपि ज्ञानं स्वपरा मासस्वरूपमेव, तेनैव तस्य तत्त्वनिर्णयापादनात् । अत एवाह 'प्रमाणत्वविनिश्चायि' ज्ञाने प्रमाणत्वनिर्णायकं ह्यभ्रान्तत्वम् तच्च पदार्थ याथार्थ्यानुपा