________________
न्यायावतारः
00000000000000000cocooooooooooooooooooooooooooocococo000000000000000000000000000000
यत्राविसंवादित्वं तत्र प्रामाण्याम्युपगमे का ते त्रपा ? अन्यथा स्वजनकादिशङ्कया सराङ्कोत्पत्तिस्त्वमिति केषां न हास्यास्पदं इति विवेचयतु । एवं निर्लोठितो वादी उल्लुण्ठीभूय ब्रडतो जलमुष्टिरिव स्त्रनिस्ताराय प्रत्यक्षस्याप्यप्रामाण्यं कीर्त्तयेत् । यद्वा - मानशून्यशून्यवाद विवादपरः प्रमाणमात्रद्वेषित्वेन तस्य तथात्त्रम चक्षीत । अथवा निरन्तर श्रद्धातमस्तत्यत्रगूढहृदयः पशुविशसनशासनाशसी श्रतिमेव मानतया समुद्दिशन् जगद्याथातथ्यावगतिकारकमिति न तत्प्रामाण्यं मन्त्री ति तान्प्रत्याह
न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् । भ्रान्तं प्रमाणमित्येतद्विरुद्धं वचनं यतः || ६॥
-
प्रत्यक्षं - स्पष्टतान्वितमध्यादि इन्द्रियानिन्द्रियोद्भवं सांव्य वहारिकं वा समक्षं । अपिनाऽनुमानादिप्रमाणसङग्रहः । भ्रान्तं - अप्रमाणमिति न नच वाच्यमिति गम्यते । यद्वा- पूर्वश्लोकान्तर्गतं दृष्टान्तं शुशोध विषयाऽऽह - ' प्रत्यक्षमपि' साध्यसाधनव्याप्त्यास्पदं हिं दृष्टान्तं । तच्चात्र प्रत्यस् लोकायतिकैरपि तस्य प्रमाणतया स्वीकृतत्वात् तथापि तत्प्रामाण्यविप्रतिपत्तौ तस्य तन्निश्चिन्वन्नाह - 'प्रत्यक्षमपि भ्रान्तमिति न कुत ? इति चेदत्र हेतुमाह- 'प्रमाणत्वविनिश्चयात् ' ( प्रमाणत्वं ) प्रमाणस्य हि स्वरूपं बाधवर्जितज्ञानत्वं, तस्य विशेषेणसमस्तत्रादिसम्मततया विविधं स्पृष्टं रसितं घ्रातं दृष्टं श्रुतं मतं वा मयेति स्वानुभवेन निश्चयात्-सन्देहरहितत्वेनानुभवनात् । उच्यते च विज्ञवृन्दारकैर्नहि प्रत्यक्षेऽनुपपन्नं नाम । अनेन दृन्ती कृतस्य प्रत्यक्षस्य साधनविकलता । प्रमाणत्वलक्षणो हेतुर्यथा प्रत्यक्षे विद्यते यथा च तन्न भ्रान्तम् । एवं अनुमानमपि प्रमाणत्वेन हेतुनंव - नायथार्थं । भवति चात्रान्तर्व्याप्तिः भ्रान्ते प्रमाणत्वस्य सर्वथैवानुपपन्नत्वात् । अथ प्रत्यक्षे प्रमाणत्वं भवतु, परं भ्रान्तत्वंन
-
-