________________
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
अत एव च हेतौ पञ्चमी । स एव चानुमानम् । अत्र च लिङ्गात् साध्यनिश्चयोऽनुमानमित्येव प्रकृतम् । साध्याविनाभुव इति तु लिङ्गस्य स्वरूपोपदर्शनेन त्रिरूपतादिनिराकृतये । स्कुटयिष्यति च अन्यथानुपपन्नत्वमिति हेतुलक्षणविवरणावसरे एतत् । परामर्शजन्यत्वे त्वनुमानस्य चन्द्रवदाकाशं जलचन्द्रदर्शनात् , भविष्यत्युदयो मृगशीर्षाणां अत्र कृत्तिकोदयात् इत्याद्याकारानुमानप्रथा वितथा न स्यात् । लिङ्गज्ञानं करणं, व्याप्तिापारः । केचित्तु व्याप्तिधी: करण, परामशों व्यापारः । अत्र चार्वाकश्वर्चयाञ्चक्र-अन्यथाऽनुमानप्रथा व्यभिचारित्वात् । अव्यभिचारि हि प्रमाणं प्रमावतामभिप्रेतं प्रत्यक्षादेरिव । न चेदं तथा। तस्मादनुमानोद्भवन्मानं भ्रान्तमेव। तन्नेत्याह-तदभ्रान्तंपूर्व लक्षणादिना निर्दिष्टं अनुमानं न-नैव भ्रान्तिमत्-अयथार्थतावत्। अत्र हेतुमाह-प्रमाणत्वात्-वाधरहितज्ञानात्मकत्वात्तस्य । यथोद्योतकर आदित्यः उलूककुलोदितपूत्कारपरम्पराभिरपि तमस्ततिवितायी न भवति । एवमत्रापि स्वपराभासि बाधवर्जितज्ञानमयत्वेनानुमान - स्याभ्रान्तत्वं भवन्न नास्तिकमस्तिष्कनिर्गतन्यकारैरन्यथा भवति । यो यस्य नियतः सम्बद्धः स तं अदृष्मपि ज्ञापयत्येव, काऽत्र व्यथा। क्वचिद्भ्रान्तत्वदर्शनेन च यदि तत्सर्वथा प्रमाणपथोत्तीर्णं तदा मरुमरीचिकानिचयदर्शने जातं जलज्ञानमपि भ्रान्तं निभालितमिति यावत्प्रत्यक्षस्यापि प्रामाण्यानभ्युपगमः श्रेयान । अथ च शून्यवादिनं प्रति प्रतिपादयता प्रत्यक्षस्यापि प्रामाण्यं भवता तत्र हेतुर्वाच्य एव, स्वमनस्यपि प्रत्यक्षस्य भ्रान्तत्वाभ्रान्तत्वनिश्चयोऽप्रामाण्यप्रामाण्यहेतुनैव क्रियेत । किञ्चानपेक्ष्य स्मरणादीन् कोऽत्र प्रत्यक्षेऽपि प्रामाण्यनिर्णायकः । तेषां च मानत्वे सुतरामनुमानस्य मानता। यदि च न तेऽनुमानं प्रमाणतास्पदं, तर्हि प्रत्यक्षस्यापि देहि जलाञ्जलिं प्रामाण्यायेत्यभिप्रेत्याह-समक्षवत् । यथाहि-प्रत्यक्षस्याविसंवादित्वं तद्दर्शितार्थाविसंवादात्त्वयाऽभिधीयते, तथैव धूमादेवह्नयाद्यनुमानस्यापि तथात्वं विनिश्चित्य तदपि तथेति किं न निर्णीयते निर्णयनिरतेन ?