________________
न्यायावतारः
000000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
तथाभ्युपगमः स्याद्यदाह-'नयवादान्तरेण प्रत्यक्षानुमानोपमानागमाश्चत्वारि प्रमाणानि' परं यथास्थितपक्षनिरूपणे तन्निरूपणहेतुभूत एकदेशो नोपयुक्त इति । भेदो हि परस्परवैलक्षण्येन स्यात् तच्च प्रत्यक्षपरोक्षयोरेष, नान्येषां । परोक्षभेदास्तु भवन्तस्तान कोऽपि कोपिताश्रयं कुर्यादिति । अत एव स्वतन्त्रं प्रमाणभेदयोग्यत्वाङ्गीकरणादप्रमाणान्येव वा तानीत्युक्त भा यकारेण । सुप्रतिष्ठितव्यवस्था हि 'तत्प्रमाणे' (मतिश्रुतावधिमनःपर्यायकेवललक्षणं ज्ञानपञ्चकं आये परोक्ष प्रत्यक्षमन्यदिति प्रत्यक्षपरोक्षे द्व एव प्रमाणे इत्यर्थः) इति सूत्रेण स्पष्टमेव ख्यापिता । न चैवं 'इंदियपञ्चक्खे' इत्यादि नन्दिसूत्रीयपाठेन स्पष्ठ एव विरोधः समधिरोहेत् । तत्र ह्यत्रत्यद्वितीयव्याख्यानबत् सांव्यवहारिकत्वेन स्पष्ठत्वमङ्गीकृत्यैव तथाव्याख्यातमन्यथा कथं तत्रैव पच्चक्खं तिविहं' इत्याद्यचीकृतन् देववाचकवर्याः । अत्र पश्चादुदिष्टमपि परोक्षं लोकोपयोगित्वेनादौ विवेचयति । तत्रापि संस्कारोदभूतं तदिति ज्ञानं स्मरणं, अनुभूतिस्मृत्युद्भवं सङ्कलनं प्रत्यभिज्ञा, अन्वयव्यतिरेकव्याप्तिस्तर्क इति लक्षणवतां स्मरणादीनां क्षुण्णतया प्रायस्तात्त्विकविप्रतिपत्तिविषयाभावात् तानुल्लङ्घय तदङ्गीभूतं अनुमानं लक्षयस्तत्प्रामाण्यं निरूपयँश्चाह --
साध्याविनाभुवो लिङ्गात् साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं, प्रमाणत्वात् समक्षवत् ।। ५ ॥ साधयितुमिष्टं साध्यं - वयादि, अप्रतीतानिराकृताभीप्सितं, तेन विना न भवतीति विपि साध्याविनाभूः, धूमादितादृशात् लिङ्गात्-लिङ्गयति-गमयति, असिद्धमिति लिङ्ग तस्मात्, साध्यस्यपूर्वोक्तस्य, निश्चायक-निर्णयापादकं यज्ज्ञानं तदनुमानं स्मृतं । अनुमाता हि पूर्व लिङ्ग प्रत्यभिज्ञाय तस्य तबलापन्नं साध्याविनाभावं च संस्मृत्य साध्यसत्तामाकलयति इति लिङ्गजन्य एव साध्यनिश्चयः ।