________________
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००600000000
निन्द्रियनिमित्तोद्भवभिन्नतया साक्षादात्मना स्पष्टतया वा ग्राहक-ज्ञापक यज्ज्ञानं ईदृशं ग्रहणेक्षया-ज्ञानापेक्षया ग्रहणप्रकारतो वा प्रत्यक्षं ज्ञेयमिति । आद्यपक्षेऽध्यादि, अपरस्मिंश्च सांव्यवहारिकप्रत्यक्षमवध्यादि च । परोक्षलक्षणमाह-इतरत्-प्रत्यक्षाद्भिनस्वरूपं इन्द्रियानिन्द्रियोत्पन्नेनास्पष्टेन वाऽर्थस्य ग्राहकं ग्रहणेक्षया परोक्षं ज्ञेयम् । आद्य मति. श्रुते, परस्मिन् म्मृत्यादि । अत्राऽऽबालगोपालाङ्गनाप्रसिद्ध परोक्षरूपे मतिश्रुते इति कृत्वा परोक्षभिन्नत्वेन प्रत्यक्ष लक्षितम् । अत एव वाचकमित्रैरपि प्रवचनार्थसङ्ग्रहं चक्राणैश्चक्राते एवं सूत्रे-'आद्ये परोक्षं प्रत्यक्षमन्यत्' ( मतिश्रुताभ्यामन्यत् अवधि-मनःपर्याय-केवल-लक्षणं ज्ञानत्रयं प्रत्यक्षमित्यर्थः)। यद्वाऽऽश्रयायिभाववारणायापरोक्षतयेति । नहि प्रत्यक्षलक्षणकरणाटते प्रत्यक्षत्वं सिद्ध स्यात्तथा तत्सिद्धिमन्तरा च लक्षणे प्रत्यक्षता विशिष्टा न शिष्टतास्पदम् । न च वाच्यं तथापि अन्योन्याश्रयस्तु दुरुधर एव । यतोऽत्र परोक्षभिन्नतया प्रत्यक्षं प्रत्यक्षेतरच्च परोक्षमिति लक्षणद्वयं लक्षितं, परोक्षशब्दस्यास्पष्टार्थत्वात् । स्पष्टास्पष्टत्वे तु प्रसिद्ध एवं लोके । न च तर्हि स्पष्टतयेत्येव वाच्यं, नार्थों 'परोक्षतये'त्यस्य । तथाहि-प्रतिपाद्यमाने सामान्यलोकेऽवध्यादेरननुभूयमानत्वेन तत्र स्पष्टास्पष्टत्वशङ्का न निवत्तेंतास्पष्टता वा तस्यावबुध्येतेति पक्षद्वये लक्षणव्याप्तिः सम्यक् स्यात् । न च प्रत्यक्षपरोक्षभिन्नं त्रितयं किञ्चिदपि प्रमाणमस्ति, यस्य लक्षणं विदध्याद्विचक्षणकोविदः । न च ‘पमाणे चउबिहे' इत्याद्यनुयोगद्वारादिसूत्रविरोधः । तत्र हि व्यवहारलक्षणनयवादेन परोक्षान्तर्भूतानामपीतरेषां पृथक्करणं, लोकानुरोधपरत्वात्तस्य । न चैवं स्मरणप्रत्यभिज्ञातर्काप्रामाण्यम् । तन्मतेन अनुमानाङ्गतया तत्प्रामाण्येन तेषामपि प्रामाण्याभ्युपगमात् । प्रत्यभिज्ञातो हि तर्कबलप्रतिष्ठितमन्यथानुपपन्नत्वं हेतोः सह साध्येन स्मा यति । ततश्च साध्यनिश्चयः । न चैवमत्राप्येवमेव कार्यम् । व्यवहारस्य हि लोकोपचारमात्रप्रियत्वात्तस्य