________________
न्यायावतारः
५
0000000000000000000000000000000000000000000000000000000000000000000000000000 30000000
मोहनिवृत्तिः प्रमाणविषयक ज्ञानकपणं कृतं स्यात् । यद्यपि नास्ति प्रमाणसामान्ये व्यामोहो लोकानां, तथापि तत्स्वरूपभेदा दावस्त्येवाऽसौ । तथाहि - 'अविसंवादि ज्ञानं प्रमाण' मिति सौगताः । अत्र संशयानध्यवसाययोर्विसंवादित्वाभावात् प्रामाण्यापत्तिः । अन्यच्च प्रमेयोपलम्भ एवं ज्ञानं प्रमाणं स्यात्तदर्वागतथात्वेन ततस्तस्मिन् प्रवृत्तिरेव न स्यात् । किञ्च प्रमाणस्य प्रामाण्यम विसंवादित्वमन्तरा, तच्च न प्रमाणमेव । क्षणक्षयित्ववासनायां तु को ज्ञानवान् कश्चाविसंवादित्वनिर्णेतेति चिन्त्यमिदम् । 'अर्थोपलब्धिहेतुः प्रमाणमिति नैयायिकादयः । अत्र हेतुर्य दीन्द्रियकार कसा कल्यादयस्तर्हि तेषामचेतनत्वान्न प्रमाणत्वम् । न चेन्द्रियाण्युपलब्घृणि, तेषां विगमेऽपि तदुपलब्धार्थानुस्मृतेः । 'अपूर्वार्थावगन्तृ प्रमाण' मिति मीमांसकाः । तेषां मते च स्मृतिस्तद्धेतुकं चानुमानादिकं न प्रमाणं स्यात् । एवं 'कल्पनापोढं अभ्रान्तं प्रत्यक्षं' इति बौद्धा: । 'इन्द्रियार्थसन्निकर्षोत्पन्नमव्यभिचारि व्यवसायात्मक निर्व्यपदेश्यं ज्ञानं प्रत्यक्षं' इत्यक्षपादानुयायिनः । 'क्षाणां सतां सम्प्रयोगे श्रात्मनो बुद्धिजन्म प्रत्यक्ष' मिति मीमांसकाः । एवमेवान्येष्वपि लक्षणेपूयम् । भेदेऽपि व्यामोहो, यथा'प्रत्यक्षानुमाने प्रमाणे' इति तच्चनीकाः, 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ' इति गौतमीयाः, प्रत्यक्षानुमानशब्दाः प्रमाणानीति कणादा: कापिलाच, 'प्रत्यक्षानुमानोपमानशब्दार्थापत्यभावाः प्रमाणानीति जैमिनीयाः, श्रुतिरेव मानं नान्य' दिति वेदान्तिनः, 'प्रत्यक्षमेवे 'ति लोकायतिकाः, इत्यवितथमेवोक्त' यत्प्रमाणलक्षणाद्यतौ तद्व्यामोहनिवृत्तिरिति । अथ पूर्वोक्तं प्रमाणे लक्षयति
---
अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहणेक्षया ॥ ४ ॥
- गम्यते इत्यर्थः - आत्म देहादिः, तस्य अपरोक्षतया - इन्द्रिया