________________
न्यायावतारः
00000000000000000000000000000000000000000000000000000000000000000000000000000000000
दानादानादिलोंके प्रसिद्धिमुपगतो व्यवहारोऽपि । चोप्यर्थे, प्रमाणनिष्पादित एव । नहि ज्ञानमन्तरेण कोऽपि कस्यापि व्यवहारः स्यात्, कुम्भादीनामपि व्यवहर्तृत्वापत्तेः । यद्वा प्रसिद्धानि प्रमाणानीत्येतावन्मात्रमेव न, किन्तु चस्य समुच्चयार्थत्वाद् व्यवहारः प्रमाणपरिच्छिन्नो दानादिलोकव्यवहारोऽपि प्रत्यक्षादिप्रमाणकृत एवेति । ततश्च किमित्याह-प्रमाणस्य प्रत्यक्षादिभेदभिन्नस्य लक्षणमतिव्याप्त्य= प्राप्त्यसम्भवरहितोऽसाधारणो धर्मस्तस्योक्तौ-निरूपणे, प्रयोजनंसाध्यं, न नंव, ज्ञायते-उपलभ्यते । न च निष्प्रयोजने प्रेक्षावन्तः प्रवर्त्तेरन, तत्ताक्षतेः, कण्टकशाखामर्दनप्रवृत्ततथाविधपामरपुरुषवत् । इति नारम्भणीयमिदम् । तथा चोक्तं- ' धर्मार्थिभिः प्रमाणादेर्लक्षणं नतु युक्तिमत् " ( विचार्यमित्यनुवर्त्तते ) प्रयोजनाद्यभावेन । आदिशब्दाद्धर्मध्यानादिनिर्जराकार्यपरिग्रहः । अन्यच्च - लक्षणं किं विनिचित्योच्येत अन्यथा वा ? आद्ये, सिद्धत्वाल्लक्षणस्य किं प्रणयनम् ? | अन्त्ये, लक्षणस्यैव प्रमाणेनाविनिश्रितत्वात्तात्रदलक्षणत्वमिति तदुतिर्वक्तुर्थ्यान्यमेवाविष्कुर्याच्छोतुनैव कञ्चिदपि बोधमिति न वाच्यमेव लक्षणादि । तथा चात्र प्रयोगः न वाच्यं लक्षणादि, निष्प्रयोजनत्वात् पितृविवाहादिवत् । निष्प्रयोजनं लक्षणादिवाक्यं सिद्धत्वात् बुभुक्षितादि प्रति अशनाद्युपदेशवदिति । एवमाक्षिप्त आहाऽऽचार्यवर्य:
"
प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् । तद्व्यामोहनिवृत्तिः स्याद्, व्यामूढमनसामिह ॥ ३ ॥
-
लोकव्यवहारो यतः प्रमाणनिर्मितस्तत: प्रत्यक्षादीनि प्रमाणानि यद्यपि प्रसिद्धानि तथापि तेषां वक्ष्यमाणेन अनादिनिधनात्मिकेति वाक्येन लक्षणादीन्यपि च प्रसिद्धान्येव सन्ति तथापि प्रसिद्धानां प्रमाणानां लक्षणोक्तौ अस्ति प्रयोजनं । किं तदित्याह - इह-प्रमाण-त लक्षणादौ, व्यामूढमनसां निबिडज डिमाष्टब्धान्तःकरणानां तदुव्या