________________
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
हापायधारणाक्रमवदेव। अपरं भेदं त्वाह-परोक्षं' पराणि-चेतनामयस्वाज्जीवस्य इन्द्रियमनांसि, तैरुक्षा-सम्बन्धो यस्मिंस्तत्परोक्षं । यद्वा-अताज्जीवात् परं आन्तरितं पुद्गलमयेनेन्द्रियादिना । अथवा-अक्ष्ण इन्द्रियात्परं असाक्षादिति परोक्षम् । इन्द्रियानिन्द्रियनिमित्तो मतिश्रुतात्मको बोधः । अन्त्ये त्वस्पष्टोऽवबोध एव । अत्र तु चशब्दः प्रत्यक्षेणास्य तुल्यकक्षतोद्भावनार्थः । भेदद्वैविध्य एव हेतुमाह'द्विधा मेयविनिश्चयात् मातु योग्यं मेयं-आत्मदेहादि, तस्य विनिश्चयोयाथातथ्येन निर्णयः, स द्विधैव प्रत्यक्षेतरभेदेनेति । प्रमाणस्य द्व एव विधे । पदार्थपरिच्छेदकं हि प्रमाणं । पदार्थपरिच्छेदश्च द्विधैव, नान्यथेति प्रमाणमपि द्विधैव । स्मरणप्रत्यभिज्ञानतर्वानुमानाऽऽगमा अत्रैवान्तर्भूताः । मतिश्रुतयोः 'आये परोक्ष मिति वचनात् परोक्षता, स्मरणादीनां च 'मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध-इत्यनर्थान्तर'मितिवचनात् मतित्वमिति सुस्थम् । पदार्थनिश्चयो द्विधैवेति प्रमाणमपि द्विधैव । उपमानार्थापत्त्यभावसम्भवैतिह्यप्रातिभादीन्यप्यत्रैव यथासम्भवमिति नाधिक्यं प्रमाणेयत्तायाः। यथाप्रतिज्ञातं प्रमाणलक्षणादौ निरूपिते आह चोदनाचञ्चुः
प्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्ती, ज्ञायते न प्रयोजनम् ॥२॥ प्रमाणानि स्वपराभासीनि सप्रभेदानि ज्ञानानि, प्रसिद्धानिलोकव्यवहारपतितानि । सावधारणत्वाद्वाक्यस्य प्रसिद्धान्येव, न कञ्चिदपि तेषां साध्यत्वम् । तथा च प्रसिद्धार्थप्रणयनप्रवणत्वात् प्रस्तुतप्रकरणस्य नार्थवत्ता । नहि नाम बुभुक्षितोऽश्रीयात् पिपासितश्च जलं पिबेत्युपदेशः दीर्घशेमुषीकार्यम् । प्रसिद्धत्वं च प्रमाणानां अनुपदेशेनापि स्पर्शादिसंवेदनानां सद्भावात् । न च विपश्चिद्वर्त्तन्येबैषा, किन्तु यावल्लोक, इत्याह-व्यवहारश्च तत्कृतः'