________________
न्यायावतारः
.00000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००60000003
प्रकर्षेण - संशयादिव्यवच्छेदेन मीयते-परिछिद्यतेऽर्थोऽनेनेति प्रमाणं इति लक्ष्यम् । ज्ञायते सामान्यविशेषोभयात्मकोऽध्यर्थो विशेषप्राधान्येनावबुध्यते येन तज्ज्ञानं इति लक्षणम् । विपर्ययादावति व्याप्तेराह-बाधविवर्जितं' तद्वत्यतद्वत्त्वबुद्धिर्बाधः। यद्वा बाधते-पदार्थ विलोडयति अतत्स्वरूपतया ज्ञापनेनेति बाधः । स च विपर्ययसंशयानध्यवसायभेदात्रिविधः । शुक्ताविदं चाकचिक्यादिमत्त्वात् रजतमिति विपरीतनिर्णयो विपर्ययः । स्थाणौ उर्ध्वतादिदर्शनादयं स्थाणुः पुरुषो वा इत्यनेककोटिकानवस्थितज्ञानं संशयः । अन्यत्रोपयोगाद् गच्छतस्तृणस्पर्शज्ञानमनध्यवसायः, तेन बाधेन विशेषेण वर्जितं. शून्यं यद् ज्ञानं तत् प्रमाणमिति योज्यं ।
अथ तत्प्रमाणतया निर्दिष्टं ज्ञान कीदृश स्यादिति विशिष्टि'स्वपराभासि' खं-आत्मा ज्ञानमेव, पर:-ज्ञानादन्योऽर्थो घटादिः, तयोरासमन्तात् सकलतद्वर्तिधर्मवत्त्वेन भासनशीलं निर्णयजननस्वभावं दीप इव इत्थम्भूतमेव ज्ञानं, अस्वाभासिनः पराभासित्वायोगात् कुम्भादिवत् । अन्येन तदाभासे तु तस्याप्यन्येनेत्यनवस्थैव । अत एवं प्रामाण्याप्रामाण्ये परत एवोपपद्यते । प्रमाणं संलक्ष्य तद्भदावाऽऽह'प्रत्यक्षं च परोक्षं च' 'अश् भोजने' इति वचनात् अनाति-सर्वानर्थान पालयति संसारस्यानादितया च भुनक्ति वेति अक्षो जीवः । यद्वा. अश्नुते-व्याप्नोति सकललोकं सर्वत्र जन्मादिमत्त्वेनेत्यक्षः जीव एक । अर्क-जीवं प्रति गतं इन्द्रियादिनिरपेक्षतयोत्पत्तेः प्रत्यक्षं साक्षादात्मनैवोद्भ तमवध्यादि । चशब्दः स्वगतानेकभेदसूचनार्थः । अथवाअति प्रति गतं प्रत्यक्ष । व्युत्पत्तिमात्रमेवेदं, प्रवृत्तिनिमित्तं तु स्पष्टत्वमेव । चशब्दस्स्वत्रसांव्यवहारिक - पारमार्थिकद्विविधस्यापि सप्रभेदस्यास्य ज्ञापनाय । यावद्र पिगोचरोऽवधिः, मनोमात्रगोचर मनःपर्यायं, सकलज्ञेयावभासि केवलं, इति पारमार्थिकप्रत्यक्षमव. ध्यादि । सांव्यवहारिकं तु साक्षात् इन्द्रियानिन्द्रियोद्भतं अवग्रहे.