________________
5 णमोत्थु र्ण समणस्स भगवओ महावीरस्स फ्र
आगमोद्धारक- आचार्यश्रीआनन्द सागर सूरिनिर्मितदीपिकाविभूषितः तार्किकमूर्धन्य श्रीसिद्धसेन दिवाकरप्रणीतः
न्यायावतार: ।
नत्वा नतसुरश्रणिं प्रमाणनयदेशकम् । सार्वजिनं यते न्याया - वतारं स्फुटितु धिया ॥ १ ॥
,
प्रमाणतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते । प्रमाणं-निर्दिश्यमानस्वरूपं तस्य तत्वमसाधारणं स्वरूपं तस्य व्यवस्थापनं युक्त्या निर्णीय स्वरूपोपदर्शनं तस्मै, इदं सुदृढानुभवास्पदतयान्तर्यथाघस्थिततया स्थितं प्रमाणतत्त्वं, उपक्रम्यते- शास्त्ररूपेण बहिः प्रकाशयितुमारभ्यते इत्युपोद्घातः । प्रयोजनाभिधेयसम्बन्धप्रदर्शनपरः । मङ्गलं तु प्रमाणस्य ज्ञानात्मकत्वाज्ज्ञानस्य च 'जं अन्नाणी' त्यादिवाक्यात् निर्जरार्थकत्वात् प्रमाणशब्देनोपात्तमेव प्रतिबन्ध विघातस्यैव मङ्गलार्थत्वात् । यद्वा-प्रशब्द एव मङ्गलप्रकर्षार्थित्वेन तस्य भद्राद्यन्तर्गतत्वात् भद्रादीनां च 'ये च भद्रादिवाचका' इत्यनेन मङ्गलार्थ'त्वानुस्मरणात् ।
अथ प्रमाणस्य स्वरूपं भेदौ चाह
प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्वयात् ॥१॥