________________
न्यावावतारः
.000000000000००००००00000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
'एकरसमपि तद्वाक्यं वक्तुर्वदनाद्विनिःसृतं तच्च । नानारसतां गच्छति, पृथक पृथग भावमासाद्य' ॥१॥ अत एव च न्यगादि वाचकवर्यैः'न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् ।' इति आहे 'तत्त्वग्राहितयेति । एवं चार्जवादयुक्तेप्युक्ते यदनुरागिभिः शिष्यैः शिष्यतेऽन्यथाकारं निरन्तरभक्तेभ्योऽङ्गीकुर्वते च ते तथेति । तन्न शाब्दं मानं, तल्लक्षणोत्तीर्णत्वात्तस्य । लोके तु जनकादिस्तथाभूत एव । यतो नासो पुत्रादिभ्यो दृष्टेष्टव्याहतमपरमार्थाभिधायि वाक्यमभिधत्ते । पुत्रादीनां च तत्त्वग्राहितया या बोधोत्पत्तिः, सैव लौकिक शाब्दं मानमिति । यत्तु कचिद्वाक्यादिकमेव शाब्दतया जेगीयते, तत्कारणे कार्योपचारं विधायैव । अन्यथा कथ जडताम्वरूपस्य वाक्यस्य व्यागृणीयात् मानताम् । मानस्य ज्ञानरूपत्वादेव । भवति च यत्र यो दृष्टेष्टाऽव्याहतवाक्यः प्रामाणिकबोधोत्पादकःस एव, निपुणवैद्यादिवत् । न चानुमानेऽन्तर्भावनीयमिदं, व्याप्त्यादिभावकलनाभावात् । स्पष्टं तदुल्लेखात् । न चानुमानं तदभावे भवतीति । अन्यच्च - वक्त्रधीनप्रामाण्यमिदं, तत्तु हेत्वाभासशून्यताद्युत्थम् । किञ्च-प्रत्यक्षपूर्वकं तत् व्याप्तिहेतुकं च, इदं तु प्रकरणादिना विशिष्टबोधजनकमेव सङ्कतपूर्वकं च । “अनुमायाः स्थिता चैवं, उक्त प्रामाण्यता पृथक । एका व्याप्तिभवाऽन्या तु, सङ्क तोत्था यतःस्मृता।" अथ लोकोत्तरं विशिष्टत्वात्सविशेष लक्षयन्नाहप्राप्तोपज्ञमनुल्लध्य-मदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत् सार्व, शास्त्र कापथघट्टनम् ॥९॥ रागद्वेषमोहानामात्यन्तिकः क्षयः आप्तिस्तद्वानाप्तः । न च प्रति