________________
१३४
न्यायावतारः
00000000000000001000000000000000000000000000000000000000000000000000000000000000
7
तानीमानि क्षुद्राण्यसकृदावर्त्तीनि भूतानि भवन्ति, जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तद्वेष लोकः । एतदेव बृहदारण्यकेऽपि षष्ठेऽध्याये द्वितीये ब्राह्मणे । नात्र ब्रह्मनामाण्यनुश्रूयते, किमु तत्कर्तृ स्वम् । न केवलं भवावताराधिकारे एव न श्रूयते किन्तु ब्रह्मत्वावातावपि न तत्कर्त्त त्वमनुगीतम् । तथाच श्रुतिः तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासने, तेऽर्चिषमभिसम्भवत्यर्चिषोऽइरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षान्यान्षडुदति मासांस्तान् ॥१॥ मासेभ्यः संवत्सरं संवत्पदादित्यमादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एनान्ब्रह्म गमयत्येष देवयानः ||२|| मुण्डकोपनिषद्यपि - तपः श्रद्धये ह्य् पवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुत्रोऽव्ययात्मा । अनेकत्र च भवान्तरगत्यादिनिर्देशः कृतः श्रुतिस्मृत्योः । न परं कुत्रापि ब्रह्म-प्रजापतिप्रभृतिकर्त्तव्यलेशोऽपि दर्शितो दीर्घदर्शिभिः । परं दृश्यते कर्मकृतमेवागमनं तदिदमाह-विस्रस्यमानशरीरस्थस्य देहिनः देहाद्विमुच्यमानस्य किमत्र परिशिष्यते एतद्वै तत् । ४॥
1
ܘ
न प्राणेन नापानेन मृत्योर्जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ||५||
हन्त त इदं प्रवक्ष्यामि गुह्य ं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ! ॥६॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयंति यथाकर्म यथाश्रुतम् ॥७॥
मुण्डके पि - परीक्ष्य लोकान्कर्मचितान् । एष वः पुण्यः सुकृतो ब्रह्मलोकः ।