________________
न्यायावतारः
१३३
Booooooooo००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
महेश्वर एव तावद् यः सर्वज्ञः स सर्वविदिति श्रुत्या सर्वज्ञः । सर्वज्ञश्वातीतानागताद्यद्धावेत्तृत्वादेव । तथा अवाप्तवेदनश्चावश्यम्भाविनीं स्थितिं जानाति पर्यालोचयति च । यतो नहि तदज्ञातमस्त्यभूद् भवि यद्भवति वा, सर्वज्ञताक्षतेः । परिणमति च जगति तथैव यथा अनेन ज्ञानेनावभासितम् । ज्ञानं च तदधीनमेवेति, यथा यथा परिणमति तस्य ज्ञानं तथा तथा विश्वेक्ष्यविश्वान्तर्वर्त्तिपदार्थप्रकरोऽप्यावर्त्तते इति साहचर्येणाऽनन्यथासिद्धनियतपूर्ववृत्तितया भवत्येव तद्विश्वविधेः कार गं ज्ञानम् । न च भिन्न तत्ततो, गुणानां द्रव्याभेदेन व्यवस्थानात् ।
1
अन्यच्च - श्रुतिषु भवान्तरगमादौ नेक्ष्यते तन्नामापि । आदिसर्गसाधनत्वं तु कल्पितमर्वा व ज्ञातम, उत्पत्तिश्च जीवस्य प्रेत्य प्रवेदितैवमृषिभिर्यथाहु: - इति तु पञ्चम्याम्महुतावापः पुरुषवचसो भवन्तीति स उल्वावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ १॥ स जातो यावदायुषं जीवति त प्रेतं दिष्टमिताग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति |२| इति नवमः खण्डः । अथ य इमे ग्राम इटापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड् दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति || ३ | मासेभ्यः पितृलोकं पितृलोकादा का शमा का शाश्ञ्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ||४|| तस्मिन् यावत्सपात मुषित्वाथैतमेवाध्वानं पुनर्निवर्त्तन्ते यथैतमाकाशमाकाशाद्वायु वायुभूत्वा धूमो भवति धूमो भूत्या भवति ||५|| अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहि-यवा औषधिवनस्पतयस्तिलमाषा जायन्ते तो वै खलु निष्पतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति || ६ || तद्य इह रमणीयचरणा अभ्यासो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूय चरणा अभ्यासो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा शूकरयोनिं वा चण्डालयोनिं वा ॥७॥ अथैतयोः पथोर्न कतरेण च न