________________
१३२
न्यायावतारः
.000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000
भृगुवल्लयामपि-अधीहि भगवो ब्रह्मति तस्मै एतत्प्रोवाच अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । विचार्यतां महाशया यदि अत्र न ब्रह्मत्वेन प्रतिपिपादयिषितं स्यादन्नादि, कथं प्राण वाचमिति भवेद्वचनयुगलम् । प्रोक्त चाग्रे अन्न ब्रह्मति । प्राणो ब्रह्मति । मनो ब्रह्मति विज्ञानं ब्रह्मेति । आनन्दो ब्रह्मति ।
श्रुतिरहस्यमिदं नहि निश्चितौ, जगति कौचन ब्रह्मप्रजापती। श्रवणतत्परशान्तिकृते जगु श्रृंषय एवं यथारुचि कल्पिती ॥१॥ भो भोः कणादकपिलादय ! आश्रयध्वं,
किं ब्रह्म यद्विदधते जगतां व्यवस्थाम् । युष्माकमेतदृषिभिर्गदितं पुरोक्त,
नेत्रेनिमील्य पिवताऽऽयतिसौख्यदातृ ॥२॥ माश्रित्य विश्वजननाय परं महेश,
दैवं विना च भवतीह न कार्यजातम् । तत्त्वाश्रितं कुरुत किन्तु महेश्वरेण
नाऽजागलस्तननिभेन निजेष्टसिद्धिः ॥३॥ अथ चतुरचातुर्यावज्ञातदिवस्पतिपाठकाः संश्रयध्वं यूयं योगिन इव तुर्यावस्था तुरीयविकल्प स्वमनोरथपूर्तये यदचिन्त्यप्रभावोऽसौ 'महतो महीयानित्यादिवाक्यादिति चेद्. भवतु चिन्तामण्यादिवत् स्वमहिमाधरीकृताखिलविश्वस्य विश्वाधिपतेः सामर्थ्य तादृशं, परं न तहते आराधकं स्यादिति विद्यमानस्यैव जगतस्तत्प्रभाव इयत्युपयोगम् । अन्यथेच्छाप्रादुर्भावादिना पूर्वोक्तदोषानतिवृत्तेः। न च तस्य वीतरागत्वाद् वैषम्यकारणं किञ्चिदिति, भाव्यं च तथा सति जगता वैषम्यरहितेनेति नासावप्यर्हति घटनाकोटिम् । अथ विहायाऽसदाग्रह यथार्थपञ्चमुखाराधनपटिष्टतयैवमाचक्षतोरीकृत्य पञ्चमं विकल्पं यन्