________________
न्यायावतारः
१३१
........१००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
प्राणो मनः सत्यं लोकाः कर्मसु चामृत'मित्यनेन ब्रह्मतपःफलतयाsनमभिप्रेतम् । न चैनं प्रजापतिं नाङ्गीकरोति कोऽप्याबालगोपालम् । एतदेव च सर्वविधानसावधानम् इत्यपि युक्तमेव । यद्यपि च विरुद्ध वर्ति इदं यत्-ब्रह्मणस्तपसा जातायां पुष्टाविति तत्कारणस्य सष्टमेवेतरस्यावलोकनात् अपलप्यते चेत् प्रत्यक्ष कुलकमायाता नीतिरेषा भवतां यदुत-भ्रान्तं प्रत्यक्षमिति कथमन्यथा जगन्मिथ्या प्रपञ्चोऽसन्नित्याद्यवक्ष्यन् भवत्पूर्वजाः । मा च त्वरिषत भवन्तो निर्णीयते भवदभिमतमपि । प्रतिपादयाञ्चक्रुस्तावच्छान्दोग्ये-ऋषयः मनो ब्रह्मत्युपासीत । ४ । १८ । आदित्यो ब्रह्म त्यादेशः। १-१-३ बृहदारण्यकेइयं पृथिवी सर्वेषां भूतानां यावदमृतमिदं ब्रह्मदं सर्वं । इमाः आपः (यावत) ब्रह्मदं सर्व । अयमग्निः । अयं वायुः । अयमादित्यः । अयं चन्द्रः । इयं विद्युत् । अयमाकाशः । अयं स्तनयित्नुः । अयं धर्मः । इदै सत्यं । इदं मानुषम् । अयमात्मा सर्वषां भूतानां मध्वस्यात्मन: सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चाय- . मात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योयमात्मेदममृतमिदं सर्वम् ।
विलोक्यतां विचक्षणा जगन्निदानमीक्षणैर्वदन्ति यत्परे स्फुटविहाय ब्रह्म नापरम् । न निश्चितं महर्षिभिर्यतो विकल्प्य देशितं, क
आग्रहस्तदा तदीयवाक्यसेविनां ननु॥११॥ पाहुश्च पुनः वाग्वै सम्राट् परमं ब्रह्म । प्राणो वै सम्राट् परमं ब्रह्म । चक्षुर्वै सम्राट् परमं ब्रह्म । श्रोत्रं वै सम्राट् परमं ब्रह्म । मनो वै सम्राट् परमं ब्रह्म । हृदयं वै सम्राट् । सर्वेषां भूतानां आयतनं हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा हृदये ह्य व सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै स्म्राट परमं ब्रह्म नैनं हृदयं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते।