________________
न्यायावतारः
००००००००००००००००००००००००.००ccc००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
रूपितस्वरूपस्य प्रमात्रादिगुणगणयुतस्य, संवेदनं--सम्यगबाधेनविद्यते-ज्ञायतेऽनेनेति संवेदन-प्रत्यक्षं प्रमाणम् । यद्यपि ज्ञानमात्रमेव स्वसंवेदनमेत्र, आत्मगुणत्वादात्मन्येवोद्भूयमानत्वाच्च तथापि परार्थप्रत्यक्षादिसत्त्वाद् यथा पश्य पुरोऽकलङ्कितज्ञानसम्पन्नशान्त्याद्यपरिमितगुण त्नरत्नाकरायमाणां श्रीजिनेन्द्रप्रतिमामित्यादि । यद्वासंवेदयति-ज्ञापयतीति संवेदनम् । 'नन्द्यादिभ्योऽन [११३५१] इत्यने । बोधकमित्यर्थः । स्वस्योक्तरूपस्य संवेदनं स्वसंवेदनं, आत्मप्रत्यक्षकारकं ज्ञानमित्यर्थः । . अत्राहुः केचिद्यदुत-तत्रात्मा मनश्चाप्रत्यक्षे'इति वचनानैवात्मा प्रत्यक्षः । सति च तस्मिन्नात्मप्रत्यक्षे तद्व त्तिज्ञानसुखाद्यवलोकनापत्तः । यो यो दृश्यते पदार्थस्तस्य तस्य गुणा अपि वीश्यन्त एव । यथा घटप्रत्यक्षे तद्पादीनां प्रत्यक्षम् । न चात्मनि ज्ञानादयोऽदृष्टादयो वा ज्ञायन्ते । तन्त्रात्मा प्रत्यक्षः । न च वाच्यं प्रत्यगात्मन्यहंप्रत्ययभावाद चार्विदम् । यतोऽहं यज्ञदत्तोऽई विष्णुदत्त इत्यादि स्वाभिधानोचारणपूर्वकमवलोकनेऽन्तः, सति च मनसो गमने न किमप्यवेक्ष्यतेऽहंतास्पदं समक्षतयेति उच्यते औपचारिक एवासावहंप्रत्ययः । तदिदमुक्तं पूज्यमुनिना 'यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टलिङ्ग न विद्यते' इति । न च तर्हि कथमहमिति प्रत्ययः प्रत्यगात्मनीति वाच्यम् । वेत्ति तावदयं जीवो, यदुतक्रियानानं वचनादिकं सचेतनविषयकं सकत कं कर्तारमन्तरेणोचारणाद्यभावात् तन्मदीयवचनादिकमपि सकत केन भाव्यम् । कर्त्ता च नान्यः कोपि देहे मदीये, किन्त्वहमेवास्मीति कर्ताहमेव । मदीयेच्छाद्यनुसारेणैव च जायते प्रवृत्तिनिवृत्ती इति सामान्यतोदृष्टाऽनुमानेनैवाहमिति प्रत्यगात्मनि प्रत्ययः । तदाह-सामान्यतोदृष्टाचाविशेष' इति । ननु च यदि प्रत्यगात्मनि जायमानोऽहं प्रत्ययोन प्रत्यक्षः तर्हि किमिति भासते प्रत्यक्षोऽहमित्यादीतिचेत् । नासावागमसंस्कार