________________
न्यायावतारः
000000000000000000000000000000000000000000000000000000000000000000000000000060000600
१०४
मपि बुद्धयल्पत्वं, परेषां तबाहुल्यं चेति । नांशतः सती चेतना प्रत्येकभूते समुदाये बहुलतया व्यज्यते । न चासत्यपि समुदायबलेनोत्पद्यते, मद्यागेषु मदशक्तित्रदणुषु स्थौल्यवद्वेति पक्षः शोभनः । यतो हि मद्याङ्गेषु सर्वथा मदशक्तिर्नास्त्येव, धातकीपुष्पपिष्टादिषु भ्रमजन - कत्वनुदुपशमादिदर्शनात् । अत्रयवेऽपदेवोत्पद्यत समुदाये चेत्, सर्वस्य न नियता स्याच्छक्तिरसत्त्वाविशेषात् । उत्पद्येत चैवं सति चाबा - दीन्यपि पृव्यादिभ्य इति नार्थः तत्त्वचतुष्यस्वीकारेण । न चाणुषु स्थौल्यमसदेव तत्समुदाये उपलम्भात् अणुसमुदायपरिणाम एव स्थूलत्वम् । न चामूर्त्तस्कन्धानां स्थौल्यं परमाणुता चान्यनिखिलपरिमाणापेक्ष याल्पतमयात् तदपेक्षया चाऽन्यस्यात्सपरिमाणस्यासत्त्वादेव । न च सौक्ष्म्यम्थौल्येति परिणामद्वयमणुसमुदायस्य बन्धभावापन्नस्योच्यते तद्विशोयते तेनेति वाच्यम् । तस्यापेक्षिकत्वात् । अत एबोच्यते निश्चयेन सर्वलघु सर्वगुरु वा द्रव्यं नास्त्येव । न च तर्हि कथं नारदशायां प्रत्यक्षमिति बादरस्थूलस्कन्धानामेव चाक्षुषत्वोत्पत्तेः । अत एव 'भेदसङ्घाताभ्यां चाक्षुत्रा' इति । तन्न सर्वथाऽसत उत्पत्तिः सम्भवति समुदायेन । तथा च कथं सर्वथाऽसती समुद्भवेच्चेतनापि समुदाये भूतानाम् । सत्पक्षस्तु पूर्वमेव निरस्तः । यद्यप्यभावो न जीवसत्तासाधकस्तथापि न भूतधर्मश्चेतनेति सावयत्येवासौ, तत्साधने चैनया साधयिष्यत एव जीवसत्ता । अपगमिष्यति च दुर्धरविषयविषमविषवेगमूर्छितानां भवतां मोहमहिमविजम्भितम् । तावन्मात्रम् चेत् साधयिष्यत्यभावमानम् । तथा च जीवसत्ता केवलमेकतमप्रमाणसिद्धा न, किन्तु पूर्वोक्तरीत्या सर्वप्रमाणसिद्ध वेति स्त्रीकार्यैव सा । नद्याख्यान्ति विद्व.सः प्रमाणसिद्धमर्थ विद्दाय तद्विपरीतम् ।
i
एवं च सत्यपि प्रमातृत्वादिगुणयुक्तस्यात्मनः साधने प्रमाणप्रचये शेषमुपलक्षयन्नास्तिकाभिमतं प्रत्यक्षमेव जीवसिद्धौ प्रमाणतयोपदिदर्शयिषव आहुः - 'स्वसंवेदन संसिद्ध' इति । तत्र स्वस्य प्रानि