________________
१०६
न्यायावतारः
०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००00000000000000000000000
जन्योप्यहंप्रत्ययः, किन्तु झटित्यात्मनि बहुश: प्रत्ययभावादहंप्रत्य. येन प्रत्यक्ष इव गृह्णाति । यथा बहुशोऽनुस्मृतमङ्गनादि प्रलोकयति मनसा साक्षाद्भ तमिव, तथात्रापि । तदिदमाह- 'दिष्टयात्मनि लिङ्ग एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः' इति । न च शारीरोऽयमस्त्विति । शरीरादिगोचरेऽस्य बाधितत्वादहं सुखी ज्ञानवानित्यादिना प्रत्यगात्मभाविप्रत्ययेन । तदिदमुदाहृतं- 'अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्ष' इति । तस्माद्यथा नासावहंप्रत्ययः शारीरिकः तद्वदात्मप्रत्यक्षजन्योपि नैव, किन्त्वात्मानुमानाभ्या-- सजन्यदृढसंस्कारोद्भत इति । न चैतद्युक्त्यनुसारीति नोपादेयमुपादानोपादेयविधिविचक्षणैः । कथमिति चेत् ? प्रथमं तावद्विचार्यते यत् अहर्जातस्यार्भकस्याप्यहमिति यः प्रत्यय: स नानुमानिकः । न च नायं भवति तस्य, स्तनादानादिना मुखकमलोल्लासात् सुख्यहं श्रान्ता में क्षुदिति चाध्यवसायभावावगमादेव । यतः स न वेत्त्यनुमानाभिधानमपि नवा वेत्ति नवा कर्त्त जानात्यपि, तत्कथमहं प्रत्ययो न प्रत्यक्षविषयः ? न प्रत्यक्षाभावे च सहस्रशोऽनुशीलि। न प्रत्ययविपर्ययता न कदाचिदपि एवमनुभूयते-यदहं मनोऽहं हृषीकाणि, सहस्रशोऽनुमितेपि वह्नौ धूलिङ्गदर्शनेनार्य वह्निरिति प्रत्ययः प्रत्यक्षः । __यच्चोदवोचन्-'न ज्ञानसुखादि प्रत्यक्ष सति चात्मप्रत्यक्ष' इत्यादि। तदपि विरुद्धमेव । यतोऽहं सुखीति ज्ञानवानिति स्पष्टः प्रत्ययः । यच्चनोद्वीक्ष्यतेऽदृष्टमिति । तदपि न। यतस्तद्विभिन्नमेव द्रव्यमात्मावबद्धम् । न च तन्मानसो विषय इति कथं ज्ञायेत ? । अयमेव च तस्य बाधमूलं गुणत्वे, यदुत-ज्ञानसुखादिवद् नेदमध्यक्षम् । सति च तथात्वे नेदं गुणरूपम् । न च वाच्यं भाव्यं प्रत्यक्षेण तेनापीति । यतः पृष्ठलग्नरजःसमुदायवत्तस्याप्रत्यक्षत्वं स्यादेव । यथा स्पार्शनस्य सत्यपि क्षयोपशमे बद्धस्पृष्टाहित्वमपाटवात्तथात्मनः प्रत्यक्षत्वेऽपि तथानमल्याभावान्नादृष्टस्य प्रत्यक्षता । न च पृष्ठतः सुखादि न वेद्यते, वेद्यते