________________
न्यायावतारः
.00000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
चेत्तत्रावबद्धात्मप्रदेशानामग्रहणे कथमेतेषु सुखं दुःखं वेत्यहं सुखी दुःखी वेति जायते ज्ञानम् ? । न च प्रत्यक्षाभावेऽहमयं वेति स्याज्ज्ञानम्, तस्यात्मावलम्बनत्वात् प्रत्यक्षावलम्बनत्वाच्च । अन्यच्च-अयमपि नियम एवं जगति जगन्नियमितो, यदुत-द्रव्यप्रत्यक्ष एव तद्गुणानां प्रत्यक्षत्वम् । यथा घटे रूपादीनाम् । एवमत्र । यदि नात्माऽध्यक्षसिद्धः स्यात् कथमिवाम्य ज्ञानसुखादयः प्रत्यक्षाः स्युः ? सन्ति च ते प्रत्यक्षवेद्याः । नह्यग्नावप्रत्यक्षे भवत्युष्णस्पर्शभास्वरादेः प्रत्यक्षत्वम् । तदात्मा प्रत्यक्षसिद्ध एव । यदप्यचीकथन्-'न च वाच्यं प्रत्यगात्मनी'त्यादि । तदप्यसाम्प्रतमेव, यतो नह्यहं क इत्यवलोकने न भासतेऽइमात्मेति । तथाभासनादेव चाहं मां न जानामीति संशयो मे मयीति च भवति । भवेदन्यथा न वेद्मि घटादिसंशयो वा, स्थाणुपुरुषादावित्यादिवत् । अवभासाभावे कोऽहमित्युदचरत् ? । औपचारिकत्वं च भवति मूलार्थबांधे एव । 'मुख्यार्थबाधे सति च प्रयोजने भेदाऽभेदाभ्यामारोपितो गौण'इतिवचनात् । न चात्र तथेति नायमौपचारिकः । यच्च न्यगादिषु:-'सामान्यतोदृष्टादि'त्यादि । तदपि न युक्तिक्षमम् । यतो नहि व्याप्तिमहाभावेऽसति च सम्बन्धस्मरण दौभवत्यनुमानम् । 'व्याप्तिकरणकमनुमान'मिति 'व्यापारस्तु परामर्शः 'करण व्याप्तिधीर्भवेदितिवचनाच्च । न चात्राऽऽत्मप्रत्यक्षाभावेऽन्यत्र प्रत्यक्षाभावाद् भवति व्याप्तिग्रहो वचनादिकमित्यादि । प्रत्यक्षाभावे चात्मनि पृथगात्मन्यहंताऽभाववत् स्वात्मन्यपि तदभाव एव स्यात्।न चास्तीत्य. चाधप्रमाणबाधितमेतत् । शेषं तु निरस्यमुक्तानुसारेण । यदि च स्यातस्य वचसि प्रामाण्याग्रहो-दिव्यो हि स महामुनिरिति । तदायोज्यमेवमेतत्-परस्यात्मा मनश्चाप्रत्यक्षे । नहि ते घटादिवत् स्वात्मादिवच्च प्रत्यक्षगम्ये । यतो नैन्द्रियकं न च मानसमिति । तज्ज्ञानाभावे च कथमिव स्यादहंत्वेनात्मनो व्याप्तिरित्युक्तम् । न चाहमिति प्रत्यक्षोच्चारश्रवणाच्छब्दप्रत्यक्षद्वारा हि प्रत्यक्ष इति वाच्यम् । तत्र तदनवलोकनादित्याह यज्ञदत्त' इत्यादि । सन्निकर्षो हि परात्मापेक्षया