________________
१०८
न्यायावतार:
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००56006080००००००
शारीर एव, नत्वात्मीयः, तहिं ज्ञायते कथमसाविति प्रोवाच 'सामान्यत' इत्यादि । स्वात्मनि निर्णीतोऽहंप्रत्यय आत्माविनाभावीत्यनुमीयतेऽत्रापि स तथैव । अत एवान्यथानुपपत्तिरेव लक्षणं हेतोः । न सामान्यलक्षणया सर्वहेतूपस्थितेाप्तिभावादिना तदज्ञानामपि व्याप्तिग्रहाव. लोकनात्, अन्यथानुषपत्तिनिर्णये चान्येषां धूमानां दर्शनाद्वर्णगुणादीनां ज्ञानाद् भविष्यत्येव धूमताज्ञानम् । अन्यथा कथमयं घटोयं स गकार इत्यादि भवेत् । न चात्र सर्व आत्मान उपस्थिता ज्ञाता वा तेषामद्यापि नास्त्यात्मतया कथं पुनरुपस्थितिः । न च सूर्ये गतिपूर्विका (देशांतरप्राप्ति) गतिमवेक्ष्य य वद्गतिमत्पदार्थोपस्थितिस्तज्ज्ञानं वा भवति, येन पुरुषे तत्प्रमीयमाणं भवेदबाधितम् । भवति चाबाधित मिति न सामान्यलक्षणयार्थ इत्यलं प्रसङ्गानुप्रसङगेन । न च कथमुक्तम् प्रत्यक्षवदि' त्यादि। यतः केषाञ्चिदनवाप्तात्मदेहभेदविवेकानां कथं शारीरिक एवाहमिति प्रत्यय इति प्रश्नसम्भवे । यद्वा-तादृशानामेव भवति कदाचिदयं दुःखीत्यादि प्रत्यक्षाभावेऽपि प्रत्यक्षोचार इदमा दृश्यते तानुद्दिश्याऽस्यावश्यं वक्तव्यत्वात् । कथमन्यथाऽवक्ष्यत 'लिङ्ग' इत्यादि । अत एव चोक्तमग्रतोऽर्थान्तरप्रत्यक्ष इति । नहि स्वात्मा अर्थान्तरप्रत्यक्षः, किन्त्वन्येषामेवात्मानस्तथाविधा अर्थान्तरेण-शरीरेण । नहि शरीराद्भिन्नः सर्वथा आत्मेति शरीरद्वारैवाऽन्य आत्मानः प्रत्यक्षा इति सुष्ठक्तं-'परात्मानमनुसृत्य न प्रत्यक्ष इति । प्रकृते च सति प्रत्यक्षकारके आत्मनो ज्ञाने भवितव्यमेव तेनाध्यक्षेण इत्युक्तमबाधं स्वसंवेदनमिति । तेन सम्यक-विपर्ययसंशयानध्यवसायानध्यवसिततया सिद्धो-निर्णीतो, न साध्यः । नहि हस्तकङ्कणे भवत्यादर्शायेक्षा । न च तत् साध्यतेऽपरेण । न च तत्सिद्ध न। तद्वदत्रापि प्रत्यात्माहंप्रत्ययादेव सिद्धो, नतु साध्योऽपि । स्वस्वात्मानमधिकृत्यैतदुच्यते । परेषां तथात्वाभावात् । न च शरीरादावहंप्रत्ययवदयं बाधित इति बोधनाय 'समिति । न चात्मप्रत्यक्षत्वाभावे तद्वात्तिज्ञानादीनां भवति प्रत्यक्षता । न वा स्वा