________________
न्यायावतारः
१०६
255800000000000000000000000000000000000००००००००००००००००००००००००००००00000000000000000००००
त्मन्यताप्रत्ययो भ्रान्त इति तु निर्णीतपूर्वम् । तथा चावाधितनिर्णीताहंप्रत्ययप्रत्यक्षत्वादात्मा प्रत्यक्षसमधिगम्य इति नात्मदहोऽन्तरेप्प भवन्ति सन्दिग्धा इति । ननु किनामासौ प्रमातृत्वादिगुणयुक्त ? इत्याहुः पूज्या-जीव' इति । तत्र जीवति जीविष्यति अजीवदिति जीवः प्राणधारकः । नहि प्रागधारका न सिद्धा इति तेषां न जीवत्वम् । नयविशेषेण तथात्वेऽपि ज्ञानादिलक्षणभावप्राणधार. कत्वात जीवत्वाविरोधात् । न च ज्ञानादीनां कथ प्राणत्वं ? न तेषां वायुप्रचारव्यपदेश्यत्वं यत इति । यथाहि श्वालमात्रव्युत्पत्तिसिद्धोऽपि प्राणशब्दो जीवलक्षणमात्रे उक्तः -
पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छवासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरतारतेषां वियोजीकरणं तु हिंसा ॥१॥ इति
'प्रमत्त योगात् प्राणव्यपरोपणं हिंसे तिवचनाच्च । न च ज्ञानादयो न लक्षणं जीवस्य । तेषामेव तत्त्वतो जीवलक्षणत्वात। 'चैतन्यलक्षणो जीव' इति उपयोगलक्षणो जीव' इति 'नाणं च दंसणं चेवे'त्यादौ तथाभिहितमेव । तथा च सिद्धानामेव परिपूर्णज्ञानादिलक्षणत्वात् परमार्थतो जीवत्वम । यस्तु प्रोवाचौपशमिकादिभावपञ्चकयुत एव जीवः तन्मते औदायिकद्रव्यप्राणधारणाभावात मा जीवत्वं (भूत) भून कोऽपि विरोधः, सापेक्षवाक्यत्वात्तस्य ।
ननु किमिति विशेषणोपादानादेव विशेष्यनिर्देशसिद्ध: पृथग्विशेष्यनिर्देशः? नहि कोप्यस्ति प्रमात्रादिलक्षणोऽन्यः । सति च सम्भवव्यभिचारे विशेषणस्यार्थवत्ता । तन्नार्योऽनेनेति चेत् । सुष्ठूक्तं, परमयुक्तमिदम् । यतो ये हि पूर्वोक्तलक्षणमात्मानमभ्युपगम्यापि कक्षीचक्र :-तस्यौत्पातिकत्वं शरीरादभिन्नता च तन्मतव्यपोहायैतद्वचनोपन्यासस्यावश्यकत्वात् तद्वयवच्छेदस्तु 'जीव' इति स्वतन्त्राभिधानेन त्रिकालव्युत्पत्त्या च । यतो नहि स्वतन्त्रपदार्थाभावे सुखदुःखा