________________
न्यायावतारः
०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000000
पदार्थः जीवादियॊक्षहेतुर्वेति । किमित्याह-नयस्य प्रानिर्णीतरूपस्यविषयो-गोचरः, 'नाम्नी ति घो [ ५।३।१३०] विशेषेण सीयन्तेबध्यन्त इन्द्रियाण्यस्मिन्निति विषय इति व्युत्पत्तेः । नेदं स्वमनी. षिकयोच्यते इत्याहुः-'मत' इति । तीर्थकरगणधरादिभिः प्रतिपादितः । एवं नयविषयं निरूप्य तस्य सम्भवत्यामपि प्रवृत्तावन्यत्र प्रायेण श्रुतविषये प्रवृत्तिभावाद् यथार्थश्रुतलक्षणायाऽऽइ
नयानामेकनिष्ठानां प्रवृत्तेः श्रुतवम॑नि । सम्पूर्णार्थविनिश्वायि स्याद्वादश्रुतमुच्यते ॥३०॥ ननु पूर्वमुक्तमेव शाब्दलक्षणं श्रुतं च शाब्दमेवेति किं पुनविवेचनेनेति चेत्। सत्यमुक्त, परं लोकोत्तरस्य यथार्थताप्रतिपादनायैतत् । यद्वा-पूर्व प्रमाणतयोक्तमपि शाब्दं श्रुतं कथं तत्प्रमाणं भवितुमर्हति ? तस्यैकदेशविशिष्वार्थप्ररूपणप्रवणत्वात्, प्रमाणस्य च सकलार्थादेशदक्षत्वादिति शङ्कासम्भवात् पुनरेतत्स्वरूपाभिधानं युक्तमेव । अथवा 'जावइया नयवाया तावइया चेव हुँति परसमय ।त्ति समाकर्ण्य समीक्षापूर्विण आरेकेरन् यदुत-लोकोत्तरं श्रुतं नयवर्जितं न वा? आये,न तादृशमस्ति परमपुरुषवचनं यत्र न नयः। अत एव चानुयोगद्वारेषु नय इति तुर्य द्वारं जागद्यते आगमानुयोजकैरिति प्राचीनपुरुषवचोव्याघात:, तद्वत्त्वे च स्पष्टं परसमयतेति को भेदो लौकिकलोकोत्तरयोरिति तन्निरासायैतत् 'नयाना'मित्यादि । तत्र नयाः-प्रागुक्तस्वरूपाः तेषां नैगमादीन,द्रव्यार्थिकादीनांवा। कीदृशां ? इत्याहुः एकनिष्टाना'मिति । तत्र नितरामन्यानुपदेशेन स्वतन्त्रं स्थीयतेऽनयेति भिदादित्वादङि निष्ठा निश्चयो व्यवस्थोत्कर्षों दिशा वा 'निष्ठानिष्पत्तिनाशान्ता काष्टोत्कर्षे, स्थितौ दिशी तिवचनात् । तथा चैका निष्ठा येषां ते एकनिष्ठाः तेषामिति । ननु पूर्व विषयाख्याने स्वरूपाख्याने बोक्तमेवेदमिति नार्थः पुनर्वचनेनेतिचेत्, सत्यमुक्त स्वरूपादिषु, परं स ए