________________
न्यायात्रतारः
.०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
देशत्वेन कथञ्चित्प्रमाणत्वानतिक्रमात् तत्प्रतिज्ञापि कृतैवावसेया प्रमाणशब्देन । तन्न किमप्यप्रतिज्ञातमभियुक्तानामुदीरणमित्यलंप्रसङगेन । अथ को नयः ? कथं वा तत्स्वरूपमनभिधाय विषयाख्यान ? यतो नह्यज्ञाते स्वरूपे विषयाख्यानं युक्तम् । यतः प्रमाणानामप्यभिधायैव स्वरूपमुदाजगु : सूराचार्या विषयमिति । उच्यते-नीयतेप्राप्यते प्रमाणविषयीकृतस्यार्थस्यांशस्तदितरौदासीन्येनेति नयः-अध्यवसायविशेषो वचनविशेषश्च । स च द्रव्यार्थपर्यायार्थभेदात् निश्चयव्यवहारभेदाद्वा द्वधा समासतः । मध्यमतो द्रव्यार्थिको नैगमसङ्ग्रहव्यवहारभेदात्त्रेधा, पर्यायार्थिकश्चर्जु सूत्रशब्दसमभिरूद्वैवम्भूतभेदाच्चतुर्धा, शतभेदोऽपि प्रत्येकमयं सप्तविधोऽपि । व्यासतस्तु 'जावइआ वयणपहा तावइया चेव हुति नयवाअ' तिवचनाद्वचनवादपरिमाणो नयः। अत एव चायं प्रमाणांशतया विकलादेश इति गीयते गीतार्थतमैः । भवति चाय मेवापलापादितरधर्माणां नयाभासतयाऽप्रमाणम् । ततश्च मिथ्यावादः । प्रोक्तं चातो
'जावइआ नयवाआ तावइआ चेव हुति परसमय'त्ति । तथा च यथार्थमुक्तम्- ‘सदेव सत् स्यात् सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणे'रिति । स्वरूपाख्यानमप्यस्य प्रमाणैकदेशरूपत्वादेव न पृथस्कृतम् । यद्वा-विषयप्रतिपादनमेवास्य स्वरूपव्यावर्णनतुल्यम्, विषयव्यावर्णनभेदेनैव नयोऽश्नुते भिन्नतामिति । अथ व्याख्या-एको न तदितरः, इतरविवक्षणे हि प्रमाणस्वरूपापात्, देशः - अवयव उत्पादादिव्यादिर्वा, नत्वेको धर्मः । कश्चिन्नयैःधर्मद्वयादीनामप्यभिधानात्। नयता च तेषां परस्परनिरपेक्षमभिधानात् गुणप्रधानभावेन वाऽभिधानात् । अत एव च 'दोहिवि नएहि नी सत्थमुलुएण तहवि मिच्छतं।
जं सविसयप्पहाणत्तणेण भन्नोन्न-निरवेक्खे' ति प्रोचिवांसः प्रवचनप्रवानाः । तेनैकदेशेन द्रव्यत्वादिना विशिष्टो-विशेषितो द्रव्यंपर्यवा वा सामान्य विशेषो वा ज्ञानं क्रिया वा सत्तामहतीत्येवम्भूतोऽर्थः